________________
१८२ . श्रीतिलकाचार्यविरचितटीकायुतम्
भृगुकच्छेऽभवद्रेवा-तीरे धीवरनन्दिनी । पितृभ्यामुज्झिता कोणा, दुर्गन्धा दुर्भगा च सा ।।१७११।। यौवनस्थान्यदा कायो-त्सर्गस्थं मुनिमैक्षत । समाधिगुप्तनामानं, समाधिनिहितात्मकम् ।।१७१२।। विजृम्भतेऽतिसंरम्भी, हेमन्तसमयस्तदा । दरिद्राणां कुटुम्बानि, कम्पयन् कम्पवातवत् ।।१७१३।। . जाते हिमरुचौ यस्मि-नत्यन्तं निजराजनि । दूरादपि समभ्येत्य, सर्वतः प्रसृतं हिमैः ।।१७१४ ।। हँसन्तीमिषतो यत्र, मन्त्रयन्त्रमिवाग्रतः । जनैर्विन्यस्यते शीत-पिशाचच्छलनाभयात् ।।१७१५।। दृढामभेद्यां निबिडामरन्ध्रां, गुडामिवासाद्य तमिस्रकन्थाम् ।। चिरं तदन्तः स्थितवान् किलार्क स्तेनाभवद् यत्र निशा महत्यः ।।१७१६ ।। उपजाति: तेजोहानिः, साम्प्रतं मे बभूवे-त्येवं चित्ते-चिन्तयत्लज्जयेव । शीघ्रं शीघ्रं, यातवान् यद्दिनेशो, यस्मिन्नासी-लाघवं तद्दिनानाम्।।१७१७ ।। शालिनी वह्निर्वराकः किल यत्र सेन्धनः, प्रगल्भते कार्यविधौ समुद्धतः । हिमेन लब्धप्रसरेण सर्वतो, निरिन्धनेनापि विजृम्भितं पुनः ।।१७१८ ।। उपजातिः यस्मिन् गृहस्थैः सकलत्रपुत्रैः, सर्वैरपीदं किल मन्त्रयित्वा । रक्ताम्बराद्वैतमतं प्रपेदे, शीतापहं यन्न परं समस्ति ।।१७१९ ।। इन्द्रवज्रा शीते स्फीते नृणां यत्र, जायते पश्य कौतुकम् । न केवलं गृहमध्यं, गृहामध्यमपि प्रियम् ।।१७२० ।। पुष्पाणि जन्मद्रुमकन्दलाना-मन्तर्निलीय स्थितवन्ति यस्मिन् ।
न शीतभीत्येव बहिर्भवन्ति, डिम्भाः पितुः प्रावरणस्य यद्वत् ।।१७२१ ।। उपेन्द्रवज्रा १. माछी १० टि० ।। २. तत्राम्नी पुत्री ।। ३. प्रावर्तन ९ टि० ।। ४. अतिवेगवान् १० टि० ।। ५. हेमन्तसमये ९ टि० ।। ६. आत्मीयनृपे जाते ९ टि० ।। * प्रततं ७-९. ।। ७. प्रततां ६.१०, विस्तृतं १० टि० ।। ८. अङ्गारशकटी २ टि०, शकटाङ्गारिका लोहकी अङ्गीठी ९ टि०, अङ्गारधानिका १० टि० ।। - गृ० २ ।। ९. कार्पासी १० टि० ।। १०. अन्धकार १० टि० ।। 0 नाशा० ६.७.९ ।। ११. प्रज्वलति ९ टि० ।। १२. स्त्रीदेहावयवम् १० टि० ।। १३. वंशावलीनाम् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org