________________
१८० श्रीतिलकाचार्यविरचितटीकायुतम्
तस्याग्रमहिषीं वीक्ष्य, चन्द्राभां मधुभूपतिः । मुक्त्वा तदन्तिके स्वान्तं, वपुषैवाऽग्रतो गतः ।।१६८६ ।। मधुरुन्मूल्य पल्लीशं, द्विरदेन्द्र इव द्रुमम् । पुनर्वटनरेन्द्रेण, न्यमन्त्रि वलितो जयी ।।१६८७ ।। मधुर्ययाचे माधुर्या-चन्द्राभां कनकप्रभम् । सोऽवक् प्राणैः समं प्राण-वल्लभा भोः ! समर्प्यते ।।१६८८ ।। ततः कामातुरः कामं, मत्तो मधुपवन् मधुः । तां प्रसह्य प्रगृह्यागात्, जितकासी निजं पुरम् ।।१६८९।। वियोगार्त्या तदैवाभूद्, विकल: कनकप्रभः । मधुः पुनस्तया सार्द्धं, रेमे शच्येव वासवः ।।१६९० ।। चन्द्राभान्येधुरप्राक्षी-दुत्सूरादागतं मधुम् । स ऊचेऽभून्मोत्सूरं, पारदारिकवादतः ।।१६९१।। चन्द्राभा स्माह को वादः, प्रशस्याः पारदारिकाः । राजोचे मेदृशं वोच, समाप्याः पारदारिकाः ।।१६९२।। भूयोऽप्युवाच चन्द्राभा, प्रपूज्यः पारदारिकः । अत्रार्थे प्रथमं नाथ!, भवानेव निदर्शनम् ।।१६९३।। श्रुत्वेति त्रपया भूभृ-दभून्मधुरधोमुखः ।। इतश्चागात्पथे नृत्यन्, वैकल्पात् कनकप्रभः ।।१६९४ ।। तथास्थं वीक्ष्य तं दुस्था, चन्द्राभा मधुभूभृतः । स्वपतिं दर्शयामास, बाष्पपूरितया दृशा ।।१६९५ ।। तां प्रत्यर्प्य मधुस्तस्य, भ्रातृव्यं न्यस्य भूभृतम् । विमलवाहनोपान्ते-ऽग्रहीद् व्रतं सकैटभः ।।१६९६ ।। नमस्ययार्हतां तौ द्वौ, साधूनां वरिवस्यया । तपस्ययाथानशना-जातौ शुक्रे सुरोत्तमौ ।।१६९७ ।। कनकप्रभराजोऽपि, बभूवाज्ञानकष्टतः ।।
ज्योतिष्केषु सुरो धूमकेतुः केतुरिव ग्रहः ।।१६९८ ।। १. मद्यपानेन इव ।। * ०धुः १ ।। २. सायंकालम् ।। . ०र: ६-१० ।। 0 ०थि ९ ।। ३. सेवया ९ टि०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org