________________
१७९
श्रीदशवैकालिकसूत्रम् अथोचे नारदः पूर्वं, ज्ञान्यभूदतिमुक्तकः । सोऽधुना गतवान् सिद्धिं, न ज्ञानी भरतेऽपरः ।।१६७४ ।। ततः पूर्वविदेहस्थं, पृष्ट्वा सीमन्धरप्रभुम् । तवाख्यास्याम्यहं सर्व-मित्युक्त्वा नारदोऽगमत् ।।१६७५।। गत्वा नत्वाथ तत्र श्री-सीमन्धरजिनाधिपम् । रुक्मिणीभूः कथमभू-दिति पप्रच्छ नारदः ।।१६७६ ।। प्राग्वैरविल्गितं धूमकेतोराख्यदथो जिनः । रौक्मिणेयं च विद्याभृत्-कालसंवरवेश्मगम् ।।१६७७।। प्राग्वैरकारणं तस्य, नारदः पृष्टवान् पुनः । तदित्थं कथयामास, सर्वं सीमन्धरः प्रभुः ।।१६७८ ।।
द्वीपोऽस्ति जम्बूपपदः, स्वर्णाचलशिरोमणिः । तत्रास्ति भरतक्षेत्रं, भालस्थलसमाकृति ।।१६७९ ।। अस्ति हस्तिपुरं तत्र, हस्तीन्द्रमदवारिभिः । कृतकृत्या विनाप्याब्द-वृष्टिं क्लिश्यन्ति न प्रजाः ।।१६८० ।। विष्वक्सेनो नृपस्तत्र, विष्वक्सेन इवापरः । विष्वक् सेना!चारण, जिताखिलक्षमातलः ।।१६८१।। मधुकैटभनामानौ, सुतौ तस्य बभूवतुः । दन्तिदन्ताविवाराति-भीतिदौ धवलात्मकौ ।।१६८२।। तौ राजयुवराजत्वे, कृत्वा राजाग्रहीद् व्रतम् । दुस्तरापारसंसार-पारावारस्य पारदम् ।।१६८३।। उपदुद्राव तद्देश, भीमः पल्लीपतिश्छलात् ।। केतमन्तुं निहन्तुं तं, मधुभूपोऽचलद् बली ।।१६८४ ।। गच्छन् वटपुरं प्राप्तः, कनकप्रभभूभृता ।
मधुर्भोजनवस्राद्यैः, सत्कृतोऽभीष्टबन्धुवत् ।।१६८५।। .०सूः ५.८-१० ।। १. रुक्मिण्यपत्यं रौक्मिणेयः ९ टि० ।। २. विष्णुः १० टि० ।। ३. सर्वतः ।। 1 नोप० ६-१० ।। ४. विशुचीसेनोपचारेण १० टि० ।। 0 ०की० २.५. ।। * ०दः १, गम् ५ ।। १ ०शः १ ।। . ०म० ६-१० ।। ५. कृतापराधम् १० टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org