________________
१७८ श्रीतिलकाचार्यविरचितटीकायुतम्
प्रकृष्टपुण्यद्युम्नोऽसा-विति प्रद्युम्ननामकः । कृष्णेनोक्तस्तनुजन्मा, सन्मानससितच्छदः ।।१६६२ ।।
प्राग्वैराद् रुक्मिणीवेष-स्तदा कृष्णकराम्बुजात् । ज्योतिष्को धूमकेतुस्तं, हत्वा वैताढ्यमभ्यगात् ।।१६६३ ।। क्षुधार्त्या म्रियतामेष, इति टङ्कशिलोपरि । तं भूतरमणोद्याने, मुमोचाहाय बालकम् ।।१६६४।। सँ चानुपक्रमायुष्कः, शिशुस्तद्भवसिद्धिकः । भूरिपर्णसमाकीर्णे, निर्बाधे भूतलेऽपतत् ।।१६६५ ।। अग्निज्वालपुरात् कालसंवरस्य खचारिणः । विमानमस्खलत् प्रातः, स्वपुरं प्रति गच्छतः ।।१६६६ ।। अथाऽधः स्खलनाहेतुं, पश्यंस्तं बालमैक्ष्य सः । पल्यै कनकमालाय, पुत्रत्वेन ददौ मुदा ।।१६६७ ।।
खेचरः स्वपुरे मेध-कूटे स्वेषां जगौ गतः ।। मद्भार्या गूढगर्भाभूत्, सा सुतं सुषुवेऽधुना ।।१६६८ ।। कृत्वा जन्मोत्सवं तस्य, चक्रे शुद्धेऽह्नि संवरः । प्रद्युम्न इति नामान-ममानाम्लानतेजसः ।।१६६९।।
अथैत्य रुक्मिणी प्राह, स्वामिन्नर्पय मे सुतम् । हरिरूचेऽधुनैवात्त-स्त्वया याचसि किं पुनः ? ।।१६७० ।। प्रतारितोऽसि केनापि, नाथ! त्वमिति भाषिणी । रुक्मिणी मूर्छितापतत्, प्राप्तसज्ञारुदद् भृशम् ।।१६७१।। सोममूर्ती गते सूनौ, यदुभिः कुमुदायितम् ।। सत्यया सानुचरया, केवलं कमलायितम् ।।१६७२।। अथागानारदस्तत्र, किमेतदिति पृष्टवान् ।
दुःखहेतुं हरिः स्माह, शुद्धिः काप्यस्ति? चावदत् ।।१६७३।। १. धन १० टि० ।। २. हंस १० टि० ।। * ०त० २ ।। । अयं श्लोक: ९ प्रतौ नास्ति ।। 0 ०वममुं ३-५ ।। ३. अमुं नामं चक्रे ३. टि० ।। त० ५.८.१० ।। + ०व० ६-१० ।। प्रा० ५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org