________________
श्रीदशवैकालिकसूत्रम्
१७७ ऊचे भामाथ यत्पुत्रः, प्रथम स्यात् करग्रही । द्वितीया स्वान् शिरःकेशान्, छित्त्वा तस्यै प्रदास्यति ।।१६५० ।। प्रतिज्ञायेत्यहंयू ते, कृष्णोऽप्यन्तःसभं गतः । कृष्णरामादिकांस्तत्र, चक्रतुः साक्षिणोऽखिलान् ।।१६५१।।
स्वप्ने रुक्मिण्यथापश्यद्, विशन्तं गोषं मुखे । हरिराख्यत् फलं तस्य, भाविनं सुतमद्भुतम् ।।१६५२।। श्रुत्वेदं सत्यभामापि, कल्पयित्वा मुरद्विषे । स्वप्नमाख्यद्यथाविक्षन्, मुखे मम सुरद्विपः ।।१६५३।। जल्पितेनापि तत्स्वप्नं, मन्वानः कल्पितं हरिः । मा भूद्विलक्षतामुष्या-स्तस्या अपि सुतं जगौ ।।१६५४।। महाशुक्राच्युतः कोऽपि, तदा देवो महर्द्धिकः । प्राचीनपुण्यशेषेण, रुक्मिणीकुक्षिमाययौ ।।१६५५ ।। सत्याप्यापनसत्वाभूत्, परं सा मेदुरोदरा । रुक्मिणी पुण्यवद्गर्भा, निर्विकारोदरैव तत् ।।१६५६।। कृष्णमूचेऽन्यदा सत्या, न सत्या देव! रुक्मिणी । मायया गर्भमाचख्यौ, द्वयोः कुक्षिनिरीक्ष्यताम् ।।१६५७।। तदानीमेव दास्येका, वर्धयामास केशवम् । असूत सूनुमन्यून-तेजसं देव! रुक्मिणी ।।१६५८।। तद्वाक्सुधारसासार-सिक्तश्चाणूरचूरणः ।
रोमाङ्कुरधरंक्षेत्रः, सौधेऽगाद् रुक्मिणः स्वसुः ।।१६५९ ।। तदाकर्ण्य वचः कर्ण-कटुकं क्रोधविह्वला । गृहं यान्त्येव भामापि भानुकं सुषुवे सुतम् ।।१६६० ।। कृष्णोऽपि रुक्मिणीसौधे, मृगेद्रासनमाश्रितः ।
अनाय्यात्मजमद्राक्षीत्, साक्षादिव दिवाकरम् ।।१६६१।। .०मः २ ।। १. ताभ्यां कृष्णोऽपि साक्षीकृतः १० ।। । ०मुखं वृषं ६.७.९.१०, मुखवृषम् ८ ।। २. महोदरा ॥३. हे (इतिशेषः) ८ टि० ।। 0 क्षि नि० २, ०क्ष ८ ।। ४. देह १० टि० ।। * ०० २, ०त्ये० ७-१० ॥ ५. तन्नामकं पुत्रम् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org