________________
१७६ . श्रीतिलकाचार्यविरचितटीकायुतम्
श्रियः स्थाने स्थितां तत्र, रुक्मिणी वीक्ष्य सावदत् । अहो रूपमहो रूप-मिदं सर्वोत्तमं श्रियः ।।१६३८ ।। इत्युदित्वा प्रणत्याह, देवि! लक्ष्मि! प्रसद्य मे । नवीनहरिपत्नीजि-द्रूपसम्पद् विधीयताम् ।।१६३९ ।। एवं कृते महार्चान्ते, निर्मास्यामीत्युदीर्य सा । गत्वा कृष्णमुवाचैवं, तत्र दृष्टा न ते प्रिया ।।१६४० ।। कृष्णोऽथ सर्वपत्नीभिः, सार्धं श्रीगृहमभ्यगात् । सद्यो रुक्मिण्यथोत्थाय, कान्तमूचे नमामि काम् ? ।।१६४१।। भामामदर्शयत् कृष्णः, प्रणामायाथ सावदत् । कथं नस्यति ? मामेषा, शाठ्येन नमितास्म्यहम् ।।१६४२।। सहासं केशवः स्माह, को दोषश्चेनता स्वसा । . विलक्षाथागमद् भामा, रुक्मिणीनमनोन्मनाः ।।१६४३।। इतराभ्योऽधिकां तस्यै, भूतिं भूयस्तरां ददौ । . इत्थं सर्वोपरिष्टा तां, कृत्वा रेमे तयानिशम् ।।१६४४ ।।
अन्यदा रुक्मिणीवेश्म-न्यतिमुक्तर्षिरागमत् । . तं ज्ञात्वा रभसीत् तत्र, सत्यभामाप्युपाययौ ।।१६४५।। रुक्मिणी तं प्रणम्याह, भावी सूनुर्न वा मम । भावी विष्णुसमः सूनु-रित्युदित्वा स तामगात् ।।१६४६।। अथोचे रुक्मिणी सत्या, मुनिर्मवक् सुतं न ते । ततो विवदर्माने ते, अगातामच्युतान्तिके ।।१६४७ ।। अरिदुर्योधनस्तत्र, दुर्योधननृपोऽभ्यगात् । सत्योचे तं सुतो मद्भू-स्त्वत्सुतां परिणेष्यति ।।१६४८।। उवाच रुक्मिणी भामां, वक्ति दुयोधनो नृपः ।
आदौ यस्याः सुतो भावी, तस्यै दास्ये सुतामिति १६४९।। * ०य० २ ।। . ०त० ५ ।। १. भामा १० टि० ।। 0 ०या० २.६-१० ।। २. रुक्मिणीम् ।। - सा २.८ ।। ना ते १ ।। + आया० ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org