________________
श्रीदशवकालिकसूत्रम्
१७५ - क्षुरप्रपाशैः सङ्ग्राम-छूते रामोऽथ रुक्मिणः ।
धमिल्लमहरत् कृत्वा, विरथं चेदमभ्यधात् ।।१६२६।। ममानुजन्मनः पत्न्याः, त्वं भ्रातेत्यनुकम्पया । वराक! काकवज्जीव, जीवन्मुक्तोऽस्यरे! मया ।।१६२७ ।। अथ मुण्डितमुण्डः सन्, रुक्मी चण्डोऽपि कुण्डिने । नागात् तत्र ह्रिया तस्थौ, कृत्वा भोजकटं पुरं ।।१६२८ ।।
इतश्चोवाच गोविन्दो, रुक्मिणी रुक्मरोचिषम् । पश्येयं मत्कृतेऽकारि, द्वारिकानगरी सुरैः ।।१६२९।। अप्सरोभिः सुपर्वाणः, स्वशैलाधित्यकास्विव । रैवतोपत्यकास्वत्र, त्वं मया सह रंस्यसे ।।१६३० ।। रुक्मिण्याह हृता स्वामिन् !, बन्दीवैकाकिनी त्वया । दरिद्रदुहितेवाहं, त्रपिष्येऽन्तःपुरीषु ते ।।१६३१ ।। सर्वोपरि करिष्ये त्वा-मित्यङ्गीकृत्य केशवः । मुमोच रुक्मिणी सत्य-भामाधामान्तिकौकसि ।।१६३२ ।। गान्धर्वेण विवाहेन, विवाह्य मदनातुरः । यामवद्यामिनीं सर्वा-मिमां रेमे रमेश्वरः ।।१६३३।। द्वितीयेऽयभ्यधाद् भामा, स्वां प्रियां प्रिय! दर्शय । हरिरूचे प्रगे देवि!, देवी ते दर्शयिष्यते ।।१६३४ ।।
लीलोद्यानेऽथ गोविन्दः, श्रीगृहे प्रतिमां श्रियः । . · उत्थाप्यास्थापयत् तत्र, रुक्मिणी दिव्यरूपिणीम् ।।१६३५ ।।
अन्तपुर्यागमे स्थेयाः, स्थेयसीत्यशिषञ्च ताम् । आसांचक्रे सुधर्मायां, सौधर्मेन्द्र इव स्वयम् ।।१६३६ ।। पृष्टेऽथ भामया स्माह, श्रीगृहे सास्ति वल्लभा ।
भामाथ संसपत्नीका, सद्यः श्रीगृहमासदत् ।।१६३७ ।। । अखरूपपाशैः ।। * ०बाणैः ५ ।। . ०मि० २.१० ।। २. याहि (इति शेषः) ३ टि० ।। ३. काञ्चरोचिषम् . १० टि० ।। ४. उपत्यकानेरासन्ना, भूमिरूर्ध्वमधित्यका (अमरः २। ३।७) ९ टि० ।। ५. तलहट्टिसु ९ टि० ।।
. क्रीडावने ९ टि० ।। 0 ०द० २ ।। ७. शिक्षामदात् ९ टि० ।। ८. सुधर्मासभायां सौधर्मेन्द्र इव न्यषीदत् .९टि० ।। ९. रुक्मिणी ।। सा० ९ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org