________________
१७४ श्रीतिलकाचार्यविरचितटीकायुतम्
तौ दृष्ट्वा भीतभीताङ्गी, रुक्मिण्यूचेऽङ्कगा हरिम् । राहुकेतू इव क्रूरौ, दमघोषजरुक्मिणौ ।।१६१५ ।। तत्पक्षपातिनोऽन्येऽपि, विद्यन्ते वीरकुञ्जराः । एकाकिनौ भवन्तौ तु, तेन भीतास्मि भावि किम् ? ।।१६१६ ।। स्मित्वोवाच मुकुन्दस्तां, मा भैषी राजपुत्र्यसि । कैंऽमी मेऽग्रे पशुप्रायाः?, पश्येदं मद्भुजाबलम् ।।१६१७ ।। इत्युक्त्वा तन्निवृत्त्यर्थ-मर्द्धचन्द्रेषुणा हरिः । घातेनैकेन तोलाली, मृणालीच्छेदमाच्छिदत् ।।१६१८ ।। . अङ्गुष्ठाङ्गुलिनिःपेषा-दङ्गुलीयकहीरकम् । . अचूरयद् भ्रष्टचण-मिव चाणूरचूरणः ।।१६१९ ।। तत्पत्युः स्थाम संवीक्ष्य, रुक्मिणी मुमुदेतमाम् । समुल्ललास सहसा, हंसीव शरदागमे ।।१६२० ।।
रामः कृष्णमुवावं, याहि त्वं रुक्मिणीसखः । एष्याम्यहं पुनः कृत्वा, विपक्षं ते विपक्षतिम् ।।१६२१ ।। भीताथ रुक्मिणी प्राह, त्रातव्यो मम बान्धवः । रामोपि तां वधूवाचं, कारुण्यात् प्रत्यपद्यत ।।१६२२ ।। तस्थौ रामोऽथ युद्धाय, पशुराम इवोद्धतः ।। कृष्णः कृष्णीकृताराति-र्ययावादाय रुक्मिणीम् ।।१६२३।। अथायातं परबलं, मुशली मुशलेन तत् । चक्रिणो दण्डभृद् दण्ड-रत्नेनेव रिपूनहन् ।।१६२४ ।। शिशुपाल: ससैन्योऽपि, प्राप्तदैन्यः पलायितः ।
रुक्मी तु राममाह्वास्त, लक्ष्मणं मेघनादवत् ।।१६२५ ।। १. हरेरुत्सङ्गगता ९ टि० ।। २. दमघोषपुत्रशिशुपाल: १० टि० ।। ३. आत्मजः ८ टि० ।। ४. किं भविष्यति ? ९ टि० ।। ५. कृष्णः ।। ६. भीतिं मा कुर्याः ९ टि० ।। * के ममा० ८ ।। ७. तस्याः रुक्मिण्याः समाधानार्थम्' ९ टि० ।। ८. अर्द्धचन्द्रबाणेन ९ टि० ।। ९. एकेनैव प्रहारेण ९ टि० ।। १०. तालवृक्षपतिम् ।। - मृगनालीव स च्छेदत् ८ ।। ११. हरिः १० टि० ।। १२. बलम् ९ टि० ।। - इतः श्लोकचतुष्टयप्रमाणः ६ प्रतौ नास्ति ।। १३. निर्मूलम् ।। * ति १.४.८ ।। १४. अङ्गीकृतवान् ९ टि० ।। १५. रावणपुत्रवत् १०. टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org