________________
श्रीदशवैकालिकसूत्रम्
१७१ अक्षय्यबाणौ तूणौ च, नन्दकासिं च शौरये । ददौ श्रीदोऽथ रामाय, वनमालां हलं धनुः ।।१५८३।। तालध्वजं रथं तूणी, मुशलं नीलवाससी । दशभ्योऽपि दशार्हेभ्यो, रत्नान्याभरणानि च ।।१५८४ ।। त्रिभिर्विशेषकम्
बलानुजं बलीयांसं, ज्ञात्वाथ यदवोऽखिलाः । अभ्यषिञ्चन् प्रमुदिता, अपरोदधिरोधसि ।।१५८५ ।। सिद्धार्थसारथी रामः, कृष्णो दारुकसारथिः । प्राविक्षातां रथारूढी, तां पुरी शीरिशाङ्गिणौ ।।१५८६।। वैमानिका इव सुरा, विमानेष्विव वेश्मसु । धनाधीशो- यदिष्टेषु, न्यवसन् यदवोखिलाः ।।१५८७।। सार्द्ध त्र्यहं धनैर्थान्यै-र्वौ रत्नैश्च यक्षराट् । पुष्कारावर्त्तववर्षन्, पूरयामास तां पुरीम् ।।१५८८।। आगन्तवो नैव विदन्ति मानवाः, कियत्प्रमाणेति पुरीयमद्भुता । अप्येकसौधेक्षणनिश्चलेक्षणाः, समस्तमायुर्गमयन्ति विस्मिताः।।१५८९ । ।उपजातिः जैनेन्द्रालयरङ्गमण्डपमहा-स्तम्भाग्रभागोपगस्वच्छस्फाटिकपुत्रिकावलिमिषा-दागत्य यत्र स्थिताः । साक्षेपं किल निर्निमेषनयनाः, स्वर्गाङ्गनाः शिक्षितुम् , नृत्यत्पण्यवधूजनस्य निकटे, लीलाकटाक्षानिव ।।१५९० ।। शार्दूलविक्रीडितम् बालधारकवद्यस्या-मनिर्विनः सरित्पतिः । लालयत्यङ्कगान् पोतान्, धनाढ्यानामहर्निशम् ।।१५९१।। । यो प्रेक्ष्य प्रचुरत्रपापरिगतं, तारापटीमन्तरा, चक्रे शक्रपुरं विवेकविकसैद्, बुद्ध्येति बुध्यामहे । नो मां राजयते जिनो न च मनः-पर्यायवेदी न वा,
सैद्धान्तश्च यतिर्न देशविरत-स्तन्मेऽस्त्वदृश्या स्थितिः ।।१५९२।। शार्दूलविक्रीडितम् १. पश्चिमसमुद्रकूले १० टि० ।। २. सार्द्ध दिनत्रयम् ।। ३. अवलोकन० ।। ४. नेत्र० ।। । ०म० ६-९ ।। ७ स्मिन्न० १-५ ।। ५. पुरीम् ९ टि० ।। * साद् ३ ।। है पु० ३.५ ।। ६. वयं ९ टि० ।। ७. सिद्धान्ताभिजः १० टि० ।। ८ तस्माद्धेतोर्मम स्थितिरदृश्या दृशोरगोचरा भवत्विति तात्पर्यार्थः ९ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org