________________
१७०
श्रीतिलकाचार्यविरचितटीकायुतम् तत्रोज्जयन्तशैलस्य, प्रदेशे पश्चिमोत्तरे । अष्टादशकुलकोटी-सङ्गतः शिबिरं न्यधात् ।।१५७१।।
तत्रासूत सूतौ सत्यभामा गोविन्दवल्लभा । भानु-भामरसञौ द्यौः, सूर्याचन्द्रमसाविव ।।१५७२।। दिने क्रोष्टुकिनाख्याते-ऽभ्याम्भोनिधिमच्युतः । चक्रेऽष्टमं तपस्तेना-र्णवेशः सुस्थितोऽभ्यगात् ।।१५७३।। पाञ्चजन्यमुपेन्द्राय, सुघोषं रेवतीपतेः । प्राभृतीकृत्य शङ्ख स, बभाषेऽहं कथं स्मृतः ? ।।१५७४ ।। ऊचे कृष्णः पुराभूद् या, शाङ्गिणां द्वारिकापुरी । .. स्थगिता सान्वयाम्भोभि-स्तां मे वासाय दर्शय ।।१५७५ ।। अथ श्रुत्वेति देवः स, देवेन्द्राय व्यजिज्ञपत् । सोऽपि श्रीदं समादिश्या-कारयत् तत्र तां पुरीम् ।।१५७६।। द्वादशयोजनायामां, नवयोजनविस्तृताम् । अष्टादशकरोत्तुङ्ग-द्वादशव्यूढवप्रकाम् ।।१५७७।। नानारत्नौघतेजोभि-दर्शितेन्द्रायुधा दिवि । अभ्रङ्कषशिखांस्तत्र, प्रासादानर्हतां व्यधात् ।।१५७८ ।। चक्रे मध्येपुरं श्रीदः, प्रासादौ शीरिशाङ्गिणोः । श्रीमन्तौ सर्वतोभद्र-पृथिवीजयनामकौ ।।१५७९।। सुधर्मायाः सधर्माणं, विदधे तत्पुरः सभाम् । चैत्यं चाष्टोत्तरशत-श्रीजिनप्रतिमान्वितम् ।।१५८०।। समुद्रविजयादीना-मपि सर्वमहीभृताम् । प्रासादौ परितस्तौ च, प्रासादान् कृतवान् बहून् ।।१५८१।। नक्षत्रमालां मुकुटं, कौस्तुभं पीतवाससी ।
गरुडाङ्कं रथं शार्ङ्ग, चापं कौमोदकी गदाम् ।।१५८२।। * द्वौ ३-५. ।। १. कृष्णाय पाञ्चजन्यं शङ्ख, बलभद्राय च सुघोषं शङ्ख प्राभृतीकृत्य ।। २. पृथुल १० टि० ।। धान् ६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org