________________
१६९
श्रीदशवकालिकसूत्रम् . किमेतदिति कालेन, पृष्टे व्याचष्ट साङ्गना ।
अत्रैष्यत्काळंतोऽविक्षन्, भीरवो यदवश्चिताम् ।।१५५९।। कियन्तमपि कालं तद्-रोदनाय स्थितास्म्यहम् । अधुनाग्नौ प्रवेक्ष्यामी-त्युक्त्वा तत्राविशद् द्रुतम् ।।१५६० ।। भ्रष्टप्रतिज्ञता मा भून्ममेति तज्जिघांसया । देवतामोहितः कालो, विवेशाग्नौ पतङ्गवत् ।।१५६१।। काले कालगते तत्रा-वासा यदुमहीभुजाम् । हरिश्चन्द्रपुरीवासन्, दृष्टनष्टास्तदैव ते ।।१५६२ ।। कालक्ष्मापालसेनाथ, विलक्षाभूद् विनायिका । यदुसैन्यं गतं दूर-मित्यध्वन्यैर्निवेदिते ।।१५६३।। वलित्वागात् ततो राज्ञे, तत्स्वरूपं न्यरूपयत् । मूर्छितोऽथ जरासन्धः, पपात भुवि विह्वलः ।।१५६४ ।। विमूर्छः कालकालेति, कंसकंसेति च ब्रुवन् । लुठन् भुवि रुरोदोच्चै, रोदसी अपि रोदयन् ।।१५६५ ।। कालं कालगतं ज्ञात्वा, यान्तो यादवपुङ्गवाः । आनषुः क्रोष्टुकिं तुष्टाः, प्रत्ययात् प्रीयते न कः ? ।।१५६६ ।।
यातां तेषामथो मागें, मिलति स्मातिमुक्तकः । चरणर्षिनरेन्द्रेण, पृष्टः प्रस्तुतमूचिवान् ।।१५६७ ।। मा स्म भैषीर्द्विषद्भ्यस्त्वं, द्वाविंशस्तीर्थनायकः । नेमिनार्थः कुमारस्ते, त्रिजगज्जैत्रविक्रमः ।।१५६८ ।। रामकृष्णौ पुनरिमौ, भाविनौ बलकेशवौ । कथाशेषीकृतेऽरातो, जरासन्धेऽर्द्धचक्रीणि ।।१५६९।। इत्युदित्वा गते साधौ, सुराष्ट्रमण्डले नृपः ।
प्रायाणकैः कतिपयैः, समुद्रोपान्तमभ्यगात् ।।१५७०।। लो० ६.७.९.१० ।। . ०य० २.६-८. ।। - ०च्छा”० ६-१० ।। - ०गं २ ।। २ ०थ० ६ ।। १. सागरसमीपम् ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org