________________
श्रीदशवैकालिकसूत्रम् • अथ रोषारुणः प्राह, हरिः करिविदारणः । लधुत्वेनावजानासि, किमावां न श्रुतं त्वया ? ।।१५३५ ।। वज्रं लध्वपि शैलानां, पक्षौ विक्षिपति क्षणात् । तृणराशिं गरीयांसं, प्लुष्यत्यग्निकणोऽपि हि ।।१५३६।। युग्मम् किमेतदपि नाश्रावि, लघुनापि मया हताः । केश्यरिष्टेभचाणूर-खरमेषाः सकंसका ।।१५३७ ।। तेषां चेन् मिलनायोत्कः, स्वामी ते समुपैतु तत् । मत्खड्गधारातीर्थं तन्-मेलने तस्य लग्नकम् ।।१५३८।। तातेनैवार्जवादेष, तव क्ष्माभृदुपेक्षितः । विवृद्धो विषयप्राप्त्या, मनोभव इवात्मना ।।१५३९।। नो चेत् सपुत्रपौत्राणां, दशार्हाणां रणे पुरः । वराकः कीदृशस्तेऽसौ, जरासन्धो जरद्गवः ।।१५४०।। वंशानां कैदलीनां स्याद्, विनाशाय यथा फलम् । तथा पुंसामकार्येषु, निर्बन्धः कुलनाशनः ।।१५४१।।
सोमकः स्माह मत्तोऽसि, तिर्यङ्मात्रवधादरे! । कंसः किं स हतः सङ्ख्ये ?, यदेवं टिट्टिभायसे ।।१५४२।। नृपं चोवाच वंशस्य, क्ष्मावतंसस्य तेऽधुना । ' एष उच्छेदनारम्भी, संरम्भी डिम्भको घुणः ।।१५४३।। अनाधृष्टिरथाचष्ट, विशिष्टं प्रति दुष्ट! रे! । त्वयैवं ब्रुवतास्माकं, कोपितः कोपकौणपः ।।१५४४ ।। जरासन्धं जरापक्वं, जिघत्सुरुत्सुकीकृतः । आदौ करिष्यते क्रूर!, त्वां फलाफलिकापदे ।।१५४५ ।। इत्यनाधृष्ट्यधिक्षिप्तः, सोमः क्ष्माभृदुपेक्षितः ।
जरासन्धस्य भूभर्तु-राख्यद् द्वित्रिचतुर्गुणम् ।।१५४६।। .०णो० १-५ ।। १. जरासन्धस्य ।। २. साक्षिकम् ।। . ०व ६-९. ।। 0 ०न: २ ।। - वंशजालीनां, स्वाद् विनाशो ८ ।। ३. युद्धे १० टि० ।। त्से० ७-१० ।। ४. आवेशवान् ।। ५. विलक्षणम् (कृष्णम्) १० टि० ।। ६. राक्षस १० टि० ।। |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org