________________
१६६ श्रीतिलकाचार्यविरचितटीकायुतम्
मा रोदी रोदसीरन्धं, निरभ्रं बलधूलिभिः । कुर्वन् यदूनकालेऽपि, करिष्ये कालसेवकान् ।।१५२३ ।।
समुद्रविजयोपान्ते, पटुवाक् सोमको नृपः । जरासन्धेन दौत्याय, प्रहितो मथुरां पुरीम् ।।१५२४ ।। समुद्रनृपमुन्मुदं, जगादेति सदःसदम् ।। याचते क्षितिपोत्तंसः, कंसाराती बलाच्युतौ ।।१५२५ ।। अथाचख्यौ क्षमाध्यक्षः, सकोपः सोमकं प्रति । पतितः पातकेनैव, कंसः स भ्रूणघातकः ।।१५२६।। किं चाभ्यां ध्वंसितः कंसः, षड्भ्रातृवधवैरतः । .. अपराधोऽनयोः कोऽत्र, वैरी किं न निहन्यते ? ।।१५२७ ।। हीनास्त्वत्स्वामिना दृष्टा, गवादिभ्योऽपि किं वयम् ? । . स्वापत्यप्रेक्षकमपि, हन्तुमिच्छन्ति यौः क्रुधा ।।१५२८ ।। . जामातृशत्रुणा सार्द्ध, वैरं कुर्वन्न कश्चन । दृष्टः श्रुतो वा तत्किं ते, नेता जानात्यदोऽपि न ।।१५२९ ।। गोत्र एव भवेद्वैर-मेवमेवे स ते प्रभुः । प्राभवान्धो जरासन्ध-श्चेद् वैरायिष्यते कुधीः ।।१५३० ।। ततः क्रोधग्रहाबन्धा-दवश्यं पारवश्यतः ।।
अविचारितकारित्वा-न भव्यं भाणयिष्यति ।।१५३१।। प्राणप्रियाविमौ नाह-मर्पयिष्ये तव प्रभोः । अमू भविष्यतः पुत्रौ, शत्रुगोत्रान्तकारकौ ।।१५३२ ।। सोमकः कुपितोऽथाह, राजन् ! किमसि विब्रुवन् ? । क्वार्द्धचक्रिजरासन्धः ?, क्व तवैतौ नृकीटको ? ।।१५३३ ।। यदराज्यश्रियः शङ्के, पर्यन्तसमयोऽभवत ? ।
पिपीलिकाया इव यत्, जातौ पक्षाविमौ सुतौ ।।१५३४।। * यद्वाप्राक् ६-१० ।। १. सभास्थितम् ।। • सदस्यदः ६-१० ।। २. जरासन्धः ।। ० ०क्षौ ६-१० ।। दी० ८ ।। ३. गावः ।। २ ० २ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org