________________
१६५
श्रीदशवैकालिकसूत्रम् साहायकाय कंसेन, जरासन्धस्य वाहिनी । अभवद् या पुरानीता, सहसा कंससंहतौ ।।१५११ ।। सा सर्पन्त्युत्परीवर्त-हृदेवोच्चैः समन्ततः । समुद्रबलवेलोमि-प्रेलिताभूत् पराङ्मुखी ।।१५१२।। युग्मम्
अथैयुर्यदुराजानः, समुद्रविजयादयः । सुपर्वतेजसः सर्वे, वसुदेवस्य सद्मनि ।।१५१३।। लालयन् खेलयंश्चाङ्के, बलिनौ बलकेशवौ । वसुदेवो नृदेवेन, किमेतदित्यपृच्छयत ।।१५१४ ।। अचीकथदथो एतां, कथामानकदुन्दुभिः । रङ्गादुत्सङ्गमारोप्या-खेलयत् तौ ततो नृपः ।।१५१५ ।।
अथोग्रसेनमाकृष्य, काराया यदवोऽखिलाः । कंसस्य प्रेतकार्याणि, समुद्राद्याः प्रचक्रिरे ।।१५१६।। प्रत्यज्ञासीज्जीवयशा, निहते पतिहन्तरि । प्रेतकार्यं मया कार्यं, प्राणनाथस्य नान्यथा ।।१५१७ ।। समुद्रविजयो राजा-ऽनुज्ञया रामकृष्णयोः । चक्रेऽथ मथुरापुर्या-मुग्रसेनं धराधिपम् ।।१५१८ ।। प्रदत्तामुग्रसेनेन, विष्वक्सेनः प्रसेनजित् । दिने क्रोष्टुकिनिर्दिष्टे, सत्यभामामुपायतः ।।१५१९।। . इतः सा रुदतीमुक्त-केशी जीवयशाः क्रुधीः । प्रविवेश जरासन्ध-स्यास्थाने कालरात्रिवत् ।।१५२०।। । जरासन्धस्तथा वीक्ष्य, तामपृच्छत् किमीदृशी ? । कथमप्याह सा साधु-प्रोक्तं कंसकथां च ताम् ।।१५२१ ।। जरान्धोऽभ्यधात् कंस:, पुत्रि ! नाध्यायदायतिम् ।
देवक्येव हता यन्न, वल्लेश्छेदे कुतः फलम् ? ।।१५२२।। १. वाहिनी ३. टि० ।। २. समुद्रवियजेन ।। * ०च्छ० २.५.१० ।। ॐ सुतौ ६-१० ।। . या० ६.९.१० ।। ३. कृष्णः १० टि० ।। ४. प्रकृष्टसेनराजजित् १.१० टि० || * ०शा ७., ०शाः १० ।। ३ ०शीम् २ ।। ५. मुनि ३ टि० ।। + लिच्छे० २.६ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org