________________
१६० श्रीतिलकाचार्यविरचितटीकायुतम्
जगत्त्राणक्षमं प्राण-मस्य पश्यन् सविस्मयः । हृष्टोऽनाधृष्टिरुत्तीर्य, तमालिङ्ग्य रथेऽनयत् ।।१४५१।। मथुरामथ सम्प्राप्ती, भूपालपटलाकुलाम् । धनुषः पर्षदं हर्षात्, तौ सोत्सेकावगच्छताम् ।।१४५२।। सन्निधौ धनुषस्तस्या-ऽधिदेवीमिव देहिनीम् । निर्निमेषदृशौ तौ तां, सत्यभामामपश्यताम् ।।१४५३।। तदैव सत्यभामापि, कृष्णमालोक्य सस्पृहम् । कटाक्षमालां तत्कालं, वरमालामिवाक्षिपत् ।।१४५४।।
उपेत्य तदनाधृष्टि-राददानोऽपि कार्मुकम् । ' पपात सहसा तत्र, पङ्किलायामिवावनौ ।।१४५५।। विकीर्णहारमुक्तौघं, भग्नकोटीरकुण्डलम् । निःसहाङ्गं तमालोक्य, प्राहसन् पारिपाचिकाः ।।१४५६।। कंसहंसप्रवासस्य, सूचकं मेकं धनुः । घनाघन इवोद्दधे, तदा दामोदरः क्रुधा ।।१४५७।। तत्पुष्पचापवत्कृष्णः, पुष्पचाप इव स्वयम् । प्रहासमसहन् भ्रातु-र्लीलयारोपयद् धनुः ।।१४५८ ।। अनाधृष्टिः पितुर्वेश्म, गत्वा मुक्त्वा रथे हरिम् । पितुराख्यद् धनुःशार्ङ्ग, कृष्णेनारोपि नो मया ।।१४५९।। वसुदेवस्तमूचेऽथ, युवाभ्यां नश्यतां द्रुतम् । एतज्ज्ञास्यति कंसश्चेत्, ततोऽनों भविष्यति ।।१४६० ।। श्रुत्वेति गोकुले मुक्त्वा, स हरिं स्वपुरे ययौ । प्रवादश्चेत्यभूनन्द-सूनुरारोपयद्धनुः ।।१४६१।। भूरिभूमीधरारोह-भ्रान्तिश्रान्ते इव स्थिते ।
कृष्णे सतृष्णे भामाया, दृशौ रूपामृतौकसि ।।१४६२।। * हा ६-१० ।। १. किरीट १० टि० ।। ॐ प्राहस ३, प्राहसः ४, प्राहसुः ५, जहसुः २.६-९, जहासुः १० ।। २. नराः १० टि०, समीपवर्तिनः सभासदः ।। ३. श्यामवर्ण १० टि० ।। क्षणे० ६-१० ।। * ० ६-९., तो १० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org