________________
१५९
श्रीदशवैकालिकसूत्रम् जायस्व राम! रामेति, कृष्ण! कृष्णेति चोच्चकैः । गोपानां तुमुलं श्रुत्वा, रामकृष्णावधावताम् ।।१४३९ ।। दृष्ट्वारिष्टं रिष्टमिव, कृष्णो धृत्वाथ शृङ्गयोः । ग्रीवामामोट्य तस्योक्ष्ण-श्चक्राणः प्राणमोक्षणम् ।।१४४० ।। क्रूरे यमपुरीपोरे, कृते तस्मिन् सविस्मयाः । तदा मुदार्चयामासु-गोपा गोप्यश्च तद्भुजौ ।।१४४१।। कृतान्त इव दुर्दान्तः, केशी कंसकिशोरकः । आगाद् गोपीकृतातङ्क-शङ्कः क्रीडति केशवे ।।१४४२।। तर्णकान् चूर्णयन् दन्तैः, सुरेभीः खञ्जयन् खुरैः । क्षिप्त्वास्ये कूपरं तस्या-पास्यत्तं दस्युवद्विभुः ।।१४४३।। दृप्तौ तं गोकुलं प्राप्ती, कंससक्तौ महौजसौ । गतोन्मेषनिमेषौ तौ, खरमेषौ हरिय॑धात् ।।१४४४ ।।
श्रुत्वा तानिहतान् कंसः, सम्यग् ज्ञातुं निजं रिपुम् । संसद्यतिष्ठिपञ्चापं, शाङ्गं पूजोत्सवच्छलात् ।।१४४५।। यः कश्चिद्धन्वंशार्ङ्ग मे, दोष्मानारोपयिष्यति । तस्य भामां निजां जामि, दास्ये दासीकृतोर्वीम् ।।१४४६।। सर्वत्राघोषयञ्चेति, ततः प्रबलदोर्बलाः । आगमन् भूभृतोऽनेके, कश्चिन्नारोपयञ्च तत् ।।१४४७।। सूनुर्मदनवेगाया, रथस्थो वसुदेवसूः ।। अनाधृष्टिश्चापरोपा-कुलो गोकुलमागमत् ।।१४४८।। . रामदामोदरौ दृष्ट्वा, स्नेहात् तत्रावसन्निशि । गच्छन्नापृच्छ्य रामं सें, प्रातः कृष्णं सहानयत् ।।१४४९।। रथे पथि वटे लग्ने-ऽनाधृष्टौ मोक्षणाक्षमे ।
लीलयोन्मूलयामास, पत्तिर्विष्णुव्रजन् वटम् ।।१४५० ।। १. वृषभस्य ।। * गौ १ ।। २. गौः ६ टि० ।। • कृष्णो० १ टिप्पण्यां ।। 0 ० ८ ।। दृष्टौ ९ ।। १ साई० १० ।। + नुं १ ।। . चापारोपाकुलोऽभ्यागा-दनादृष्टिश्च (०स्तु १ ) गोकुलम् १.३.४, शार्ङ्गरोपाकुलो जागादनादृष्टिश्च गोकुलम् ५ ।। २ सः १.७-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org