________________
-
१५८ . श्रीतिलकाचार्यविरचितटीकायुतम्
वेश्मश्रीकण्ठभूषावद्, बभुर्वन्दनमालिकाः । एवं जन्मोत्सवे तत्र, कृतेऽथ द्वादशेऽहनि ।।१४२७ ।। नेमी रिष्टमयी दृष्टी, मात्रा स्वप्नेऽत्र गर्भगे । मङ्गलायारिष्टनेमि-रित्याख्यां तत्पिताकरोत् ।।१४२८ ।।
मथुरायां प्रभोर्जन्मो-त्सवं त्वानकदुन्दुभिः । अचिकरत् तदा तस्य, गृहे कंसः समाययौ ।।१४२९।। तां च्छिन्नैकघ्राणपुटां, खेलन्तीं वीक्ष्य कन्यकाम् । भीतभीतस्ततः कंसः, स्मृत्वा तन्मुनिभाषितम् ।।१४३० ।। पृच्छति स्म निमित्तज्ञं, कंसः शीघ्रं गृहं गतः ।। सप्तमो मेऽन्तकृद् गर्भः, साधूक्तः सैष किं न वा ? ।।१४३१।। निमित्तज्ञोऽभ्यधत्तैवं, नान्यथा ऋषिभाषितम् । अस्ति नास्तिकर: क्वाऽपि, स गर्भस्तव भैरवः ।।१४३२।। . दुष्टोऽरिष्टस्तवानद्वान्, केशी ताय॑श्च तार्श्ववत् । खरमेषौ च दुःप्रेषौ, मुञ्च वृन्दावने क्रमात् ।।१४३३।। यः सौजसोऽपि तान् कोऽपि, क्रीडया पीडयिष्यति । स एवोद्दण्डदोर्दण्डः, खण्डनाय तवापि हि ।।१४३४ ।। पूज्यते यज्जनन्या ते, धनुःर्शार्ङ्ग क्रमागतम् । अध्यारोपयिता यत्तत्, ज्ञेयो वीरः स एव सः ।।१४३५ ।। दमकः कालियाहेर्यः, चाणूरस्य निबर्हणः । हनिष्यति गजेन्द्रौ च, तौ पद्मोत्तरचम्पकम् ।।१४३६ ।।
कंसो ज्ञातुमरातिं स्व-मरिष्टादीन् वनेऽमुचत् । आदिदेश श्रमार्थं च, मल्लौ चाणूरमुष्टिको ।।१४३७ ।। भाङ्कारैनासयन् धेनूः, सर्पिर्भाण्डानि लोठयन् ।
गोपानवज्ञया पश्यन्, विष्णोर्वनैमगाहत ।।१४३८।। *राष्ट्वा १ ।। * ०ताक्ष० १-४ ।। १. अश्व १० टि० ।। 0 ०सं० १-५.७ ।। - ०० २, ०ष्ये० ५, प्रेष्यो ९ ।। २ ०वी० १ ।।+ शां० २.३ ।। . ०णौ० १.२.४.५.७-१०, ०णो० ३, चाणूरस्य च घातकः (पर्व ८। ५। २०७) त्रिषष्टिशलाकापुरुषचरित्र इत्युक्तत्वादयं पाठो युक्तः ।। २. विनाशनः २ टि० ।। ०णो० १३.५.८-१० ।। ३. वृषभ इति शेषः ।। . व्यत् ६. ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org