________________
श्रीदशवकालिकसूत्रम्
१५७ जिनस्य जिनमातुर्वा, योऽशुभं चिन्तयिष्यति । तच्छिरः शतधा भावी-त्युच्चैर्गिरमुदीर्य च ।।१४१५ ।। एवं शक्रोऽपरे चेन्द्रा, देवाश्चातुर्निायिकाः । नन्दीश्वरेऽष्टाह्रिकान्ते, कृत्वा जग्मुर्यथागतम् ।।१४१६ ।। पञ्चभिः कुलकम्
अथ प्रभाते सञ्जाते, चेट्या वर्धापितो नृपः । देव! देव्या शिवादेव्याः, पुत्ररत्नमजायत ।।१४१७ ।। राजाकर्ण्य वचः कर्ण-सुधाधारानुकारि तत् । अवाप परमानन्दं, जीवः प्राप्येव केवलम् ।।१४१८ ।। ददौ तस्यास्तदा दास्याः, स्वर्णजिह्वां नराधिपः । भूषणान्यङ्गलग्नानि, चीवराणि वराणि च ।।१४१९ ।। राज्ञि वर्षति वित्तेन, तदातुष्यजनोखिलः । ऊर्ध्वशोषं तु दारिद्र्यं, जेवासक इवाशुषत् ।।१४२० ।। राजोचे लभ्यमप्यत्र, नार्घ्यः कोऽपि दिनान् दश । शुल्कं कस्यापि न ग्राह्यं, न वा कोऽप्यपरः करः ।।१४२१।। तथा न्यवारयन् मारिं, कारागाराण्यशोधयत् । सर्वेऽपि मुमुचुर्गुप्तीः, साधवः केवलं न तु ।।१४२२।। उत्तम्भिताः ससंरम्भैः, पुरे पौरैर्ध्वजव्रजाः । एतजन्मोद्भवाः पुर्यो, रोमाञ्चा इव ते बभुः ।।१४२३।। मुक्ताक्षतभृतान्येयुः, पूर्णपात्राण्यनेकशः । मूर्तीभूयेव सर्वाणि, माङ्गलिक्यानि सर्वतः ।।१४२४ ।। पठन्सुमात्रिकैश्छात्रै-मण्डिताश्चाथ पण्डिताः । ख्यान्त्यैषैव सुमातेति, ययाजनि जिनः सुतः ।।१४२५ ।। सघट्टयुगला बाला, मुक्ताक्षोदैः प्रमोदतः ।
चतुष्कान् पुरयन्ति स्म, कुङ्कमछटकोपरि ।।१४२६ ।। ० स्तथा ५ ।। - इतः सार्धः श्लोकः ७ प्रतौ नास्ति ।। १. यवासकः ।। 0 अयं श्लोक: ४ प्रतौ नास्ति ॥ ाः २.१० ।। २. पयोधरा ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org