________________
१५६ श्रीतिलकाचार्यविरचितटीकायुतम्
से सहस्रं सहस्रं चा-ष्टाधिकं तानकारयत् । पालिका-दर्पणस्थाला-द्यपि तत्रोपकारि यत् ।।१४०३।। क्षीरोदात् पुष्करोदाच्च, मन्दाकिन्यादिसिन्धुतः । प्रभासमागधादिभ्यो-ऽम्भांसि पद्महदादितः ।।१४०४ ।। भद्रशालात् सौमनसा-नन्दनात् पण्डकादपि । आरामेभ्यः परेभ्योऽपि, सुगन्धिकुसुमानि च ।।१४०५।। श्रीखण्डागुरुकर्पूरा-द्यप्यानाय्याभियोगिकैः । कुम्भानम्भोभिरापूर्य, तूर्यत्रितयपूर्वकम् ।।१४०६।।।। सोऽभिषेकं करोति स्म, सविवेकप्रवेकधीः । ततोऽनुपरिपाट्यान्ये, यावदीशानवासवः ।।१४०७।। चतुर्भिः कलापकम्
विधाय शक्रवत् पञ्च-मूर्तीः सोऽपि स्वयं तथा । निवेश्य प्रभुमुत्सङ्गे-ऽध्यास्त स्नानीयविष्टरम् ।।१४०८।। उदग्रवृषशृङ्गाग्र-वारिधाराभिरादधे । सौधर्मेन्द्रो जिनेन्द्रस्य, स्नात्रं पावित्र्यकृत् तदा ।।१४०९।। ततश्चमरचन्द्राद्याः, सर्वे स्नात्रं वितेनिरे । निर्माज्य गन्धकाषाय्या, प्रभोरादर्शवद्वपुः ।।१४१० ।। गोशीर्षचन्दनेनाङ्गे, प्रभोः कृत्वा विलेपनम् । दिव्यैर्विभूषयामास, ततः शक्रो विभूषणैः ।।१४११ ।। एवं जन्माभिषेकस्यो-त्सवं निवर्त्य देवराट् । ईशानेशादथादाय, स्वामिनं पञ्चरूपभाक् ।।१४१२।। यथागतं तथागत्य, प्रतिबिम्बं निवर्त्य च । हत्वावस्वापिनी मातुः, प्रभुं मुक्त्वा च सन्निधौ ।।१४१३।। प्रभोरुच्छीर्षके दिव्ये, वाससी कुण्डले तथा ।
सुधां सञ्चार्य चाङ्गुष्ठे, प्रभोरस्तन्यपायिनः ।।१४१४ ।। १. अच्युतेन्द्रः अष्टप्रकारान् कलशान् प्रत्येकम् अष्टाधिकं सहस्रं सहस्रमकारयत् ।। * पाण्डु० ८.९., पण्डु० ६.७ ।। २. प्रधान १० टि० ।। रूपी ६-१० ।। - ०श्चाम० ४.५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org