________________
श्रीदशवकालिकसूत्रम् ___ १५५ तत् त्रिः प्रदक्षिणीकृत्य, विमानारूढ एव हि । मुक्त्वा विमानमैशान्यां, दिशि स प्रभुमभ्यगात् ।।१३९१।। जिनेन्द्रं च जिनाम्बां च, त्रिः प्रौदक्षिणयत् ततः । वन्दित्वा नमसित्वा चे-त्येवं देवेश्वरोऽवदत् ।।१३९२।। जय जय जगद्दीप-दायिके! विश्वनायिके! । रत्नकुक्षिधरे! देवि!, मातस्त्रातुर्जिनेशितुः ।।१३९३।।
अहं शक्रोऽस्मि देवेन्द्रः, कल्पादाद्यादिहागमम् । द्वाविंशस्य जिनेशस्य, करिष्ये जननोत्सवम् ।।१३९४ ।। भेतव्यं देवि! तन्नैवे-त्युक्त्वावस्वापिनीं ददौ । कृत्वा जिनप्रतिबिबं, जिनाम्बासन्निधौ न्यधात् ।।१३९५ ।। स्वयं च पञ्चरूपाणि, शक्रश्चक्रे तदा मुदा । निजरूपानुरूपाणि, दर्पणप्रतिबिम्बवत् ।।१३९६ ।। एकेनादत्त तीर्थेश-मुभाभ्यां चामरे पुनः । छत्रमेकेन चाधार्षी-देकेन प्रातिहार्यकृत् ।।१३९७ ।। शक्रराजस्ततश्चातु-निकायिकसुरान्वितः । शीघ्रं सुमेरुयेनैव, वनं येनैव पण्डकम् ।।१३९८ ।। मेरुचूलां दक्षिणेना-तिपाण्डुकम्बलां शिलाम् । सिंहासनं चाभिषेकं, तनैवोपैत्युपेत्य च ।।१३९९ ।। युग्मम् उत्सङ्गितप्रभुः स प्राङ्-मुखः सिंहासनं श्रितः । त्रिषष्टिरपि देवेन्द्रा-स्तत्राजग्मुस्तदापरे ।।१४०० ।।
आदावच्युतदेवेन्द्रः, प्रभोः स्नात्रार्थमुत्थितः । सौवर्णान् राजतान् रत्ना-मयान् स्वर्णमणीमयान् ।।१४०१ ।। रत्नरूप्यमयान् जीत-रूपरूप्यमयानपि ।
रत्नस्वर्णरूप्यमयान्, मन्मयांश्च निपान् सुरैः ।।१४०२।। युग्मम् २६-१० ।। ॐ शिवां ६-१० ।। - प्र० २ ।। ०क्ष० १.३-५. ।। ३ ०य० ६-९. ।।+ च० ६.७.९.१० ॥ पण्डु० ८ ।। १. पाण्डुकवन ।। २०६० २.८ ।। * ०श्चा० २.३.५-९ ।। २. घटान् १.१० टि०, कलश ३टि० ।। .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org