SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १५४ . श्रीतिलकाचार्यविरचितटीकायुतम् गोशीर्षचन्दनैधांसि, द्राक् क्षुद्रहिमवगिरेः । ताः समानाययामासु-रमरैराभियोगिकै ।।१३७९।। उत्पाद्यारणिदारुभ्यां, वह्निमह्नाय तास्ततः । होमं वितेनुर्गोशीर्ष-चन्दनैरेधसात्कृतैः ।।१३८० ।। रक्षापोट्टलिकां बद्ध्वा, तयोरथ जिनान्तिके । पर्वतायुभवेत्युक्त्वा-स्फालयन्नस्मगोलको ।।१३८१।। .. सूतिकाभवने तस्मिन्, शिवादेवीं विभुं च ताः । शय्यागतौ विधायास्थु-र्गायन्त्यो मङ्गलान्यथ ।।१३८२ ।। तदा सिंहासनं शाकं, चचालाचलनिश्चलम् । ततः साटोपकोपः स-चुच्चैर्वाचमुवाच सः ।।१३८३।। कोऽयमप्रार्थितप्रार्थी, दुरन्तप्रान्तलक्षणः ? । श्रीह्रीधृतिकीर्तिभिश्च, वर्जितः पीठकम्पनः ।।१३८४ ।। अथावधिप्रयोगेण, ज्ञात्वा जन्म जिनेशितुः । । त्यक्तकोपः प्रभुं भक्त्या, मुक्तसिंहासनोऽनमत् ।।१३८५।। सकलैर्नाकिभिः साकं, चिकीर्षुर्मज्जनं विभोः । आदिशत् त्रिदशाधीशः, स्वमनीकाधिपं सुरम् ।।१३८६ ।। सुघोषघण्टा तेनैका, नादितान्वनदस्ततः । घण्टाः सर्वविमानाना-मथ सर्वेऽमिलन् सुराः ।।१३८७ ।। चक्रे शक्राज्ञया यानं, पालकः पालकाभिधम् । पञ्चयोजनशत्युच्चं, लक्षयोजनविस्तृतम् ।।१३८८ ।। देवदेवीगणैः सर्वैः, सार्द्धं सौधर्मनायकः । भेजे विमानं चेतस्तु, धर्मरङ्गं सभावनम् ।।१३८९।। ततो नन्दीश्वरद्वीपे, शैले रतिकराभिधे । विमानं तत्र सङ्कोच्या-हज्जन्मगृहमभ्यगात् ।।१३९० ।। १. मिथः पाषाणगोलकैः समास्फालनं तद्वृद्धाङ्गनाचारोऽद्याऽपि बहुदेशेषु प्रवर्तते-त्रिषष्ठि० १-२-३१६ टिप्प० ।। * मुच्य ५-९. ।। . ०ते विभाव० ६-१० ।। 0 ०व० ६-९. ।। - स सुरः ६-१०, अयं मूलपाठ: १० टिप्पण्यामपि ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy