________________
१५
श्रीदशवैकालिकसूत्रम् रुचकद्वीपतोऽप्येयु-श्चतस्रो दिक्कुमारिकाः । रूपा रूपांसिका चापि, सुरूपा रूपकावती ।।१३६७ ।। प्रकल्प्य भगवन्नालं, चतुरङ्गुलवर्जितम् । खनित्वा विवरं तत्र, नालं निक्षिप्य ताः ततः ।।१३६८ ।। वैडूर्यरत्नैरापूर्य, बबन्धुर्हरितोलया । पीठं तस्योपरि तले, ततोऽर्हजन्मगेहतः ।।१३६९ ।। पूर्वस्यां दक्षिणस्यामु-तरस्थां च विचक्रिरे । ताभिश्च त्रीणि कदली-गृहाणि स्वर्विमानवत् ।।१३७० ।। प्रत्येकमेषां मध्ये च, सिंहासनविभूषितम् । विचॅक्रिरे चेतुःशालं, स्वर्णरत्नमणीमयम् ।।१३७१।। ता दक्षिणचतुःशाले, जिनं न्यस्य कराञ्जलौ । निन्युस्तन्मातरं चाप्त-चेटीवद् दत्तबाहवः ।।१३७२ ।। सिंहासने निवेश्योभा-वभ्यांनञ्जः सुगन्धिना । ता लक्षपाकतैलेन, जरत्संवाहिका इव ।।१३७३।। अमन्दानन्दनिस्यन्द-प्रमोदितदृशो भृशम् । उभावुद्वर्तयामासु-दिव्येनोद्वर्त्तनेन ताः ।।१३७४ ।। नीत्वातः प्राक् चतुःशाले, न्यस्य सिंहासने , तौ । स्नपयामासुरम्भोभिः, स्वमनोभिरिवामलैः ।।१३७५ ।। गन्धकाषायवासोभि-स्तदङ्गान्यजन्नथ । गोशीर्षचन्दनरसै-श्चर्चयामासुराशु ताः ।।१३७६ ।। तीः पर्यधापयंस्ताभ्यां, देवदूष्ये च वाससी । विद्युदुद्योतसध्यञ्चि, विचित्राभरणानि च ।।१३७७ ।। अथोत्तरचतुःशाले, नीत्वा सिंहासनोपरि ।
न्यषादयन् भगवन्तं, भगवन्मातरं च ताः ।।१३७८ ।। *ता १.१०, ते २, तत् ६-९ ।। १. दुर्वा १० टि० ।। . चि० १-६. ।। २. चोक १० टि० ।। - वामे ८. ॥ प्या० ६-१० ।। है वपुः सं०८ ।।+ ० ० २.८ ।। . ०ऽथ ६-८.१० ।। २ ताभ्यामामोचयामासुर्दे० २.६-१० ।। ३. सारीखा ३ टि० ।। ताश्चि० २.६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org