SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १५० श्रीतिलकाचार्यविरचितटीकायुतम् तदा त्रिज्ञानिना देवी, स्वामिना गर्भगामिना । अन्तर्दीपेन दीप्रेण, भ्रेजेऽभ्रकगृहं यथा ।।१३३६।। अन्तःसनाथं नाथेन, देव्या वपुरदीप्यत । मध्यस्थभृङ्गसंसंगि-रुक्मपङ्कजकोशवत् ।।१३३७।। पुण्यकारुण्यवांस्तिष्ठन्, गर्भे देव्याः प्रभुर्बभौ । जनतोद्धरणोपाय-मेकान्तेऽचिन्तयन्निव ।। १३३८ ।। अत्राऽन्तरे लब्धपदः, प्रावर्तत तपोत्ययः । धारासारैर्धरां धिन्वन्, मुष्णन्नुष्णांशुसम्पदम् ।।१३३९।। आदाय कण्टकगृहात् किल पङ्कजौघा - ज्जात्युद्भवासु सुमनःसु कृशास्वपीह । प्रावृट्धराधिपतिना, नयशालिनेव, सौरभ्यसम्पदखिलापि निवेश्यते स्म । । १३४० ।। वसन्ततिलका क्वचित्तडिच्चम्पकपुष्यमिश्रितम्, क्वचिद्बलाकासितकेतक्रीदलम् । ३ किलाम्बुभृद्वालकजालनिर्मितम्, धारागृहं तापहरं नभोऽभवत् ।।१३४१।। उपजातिः विद्युडुम्बरपिञ्जराम्बररुचि-धराधर श्रीधरः, सर्वश्वेतबलाकिकावलिलुलन्, मुक्ताकलापः किल । धर्तुं कालियनागमुष्णसमयं, सन्तापहालाहलम्, कालिन्दीर्जलकल्पमम्बरतलं, सामस्त्यतो गाहते ।। १३४२ ।। शार्दूलविक्रीडितम् जेगीयन्ते रेल्लककाः पामरीभि नृत्यन्तीभिः कर्णपीयूषकल्पाः । अम्भोदानाक्रष्टुकामाभिरुच्चैः, प्रारभ्यन्ते मन्त्रजापाः किलाभिः । ।१३४३ । । शालिनी दिगङ्गनानां तपपीडितानां, तापं विनेतुं किल तारताराः । हारानुकाराः शिशिरोपचाराः, धाराधरः क्षिप्यति वारिधाराः ।। १३४४।। उपजातिः १. काञ्चनकमल० १० टि० ।। २. वर्षाकालः १० टि० ।। ३. धान्यविशेषः १० टि० ।। ०द्डम्ब०५, ०६० ७, ०५० १० ।।४. मेघरूपकृष्णः १० टि० ।। ००२: ६-९ ।। ०ह्रद० २.६-१० ।। + ० प्रा० १.३.४, ०चैर्जञ्जप्यन्ते मन्त्रवर्णाः किलामी २.६ - १० ।। Jain Education International For Personal & Private Use Only ०भूत् २.६-१० ।। व० ८.९ ।। है ०प० ८ ।। www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy