________________
श्रीदशवैकालिकसूत्रम्
____१४९ तालध्वजस्य तालेन, वेणुभिर्वायुपूरितैः । कृष्णोऽनृत्यद् गिरेः शृङ्गे, गोपीगीतिरसं पिबन् ।।१३२४ ।। रामकेशवयोरेवं, क्रीडारसनिमग्नयोः । एकादशापि वर्षाणि, जग्मुरेकमुहूर्तवत् ।।१३२५ ।।
इतश्च श्रीसौर्यपूरे, कमलाकेलिमन्दिरे ।। समुद्रविजयो राजा, शिवादेवी च तत्प्रिया ।।१३२६ ।। अन्यदा कार्तिके मासे, पक्षे कृष्णेऽपि निर्मले । चन्द्रे चित्रागते श्रीणा-मतिथौ द्वादशीतिथौ ।।१३२७ ।। त्यक्त्वापराजितमपि, स्वर्ग स्वल्पदिनाश्रये । शिवोदरेऽस्थात् शङ्खात्मा, प्राप्तुं नित्यशिवोदरम् ।।१३२८ ।। त्रैलोक्येऽपि तदैवासी-दङ्गिनां भवसङ्गिनाम् । उद्योतः कोऽप्यनिर्वाच्यः, सुखं च क्षणमद्भुतम् ।।१३२९ ।। स्वप्नेष्वत्युत्तमाः स्वप्नाः, वर्णराशौ स्वरा इव । निद्राशेषे शिवादेव्या, तदा दृष्टाश्चतुर्दश ।।१३३०।। गजोक्ष-सिंह-लक्ष्मी-स्रक्-चन्द्रार्क-कलश-ध्वजाः । पद्माकर-विमानाऽब्धि-रत्नपुञ्जाग्नयस्तु ते ।।१३३१।। प्रभोः प्राभृतमाधातु-मिव स्वस्वगुणान् किल । देव्या मुखाम्बुजेऽभ्येयुः, स्वप्नव्याजाद् गजादयः ।।१३३२ ।। विनिद्रा श्रीसमुद्राय, तान् साख्याति स्म विस्मयान् । ‘मुंदा तदैव दैवज्ञं, कोष्टुकिं पृष्टवान् नृपः ।।१३३३।।
से स्वप्नफलमाचख्यौ, सुधामधुरया गिरा । नन्दनो वां जिनो भावी, त्रीलोकीतिलकः प्रभुः ।।१३३४ ।। तदाकर्ण्य महाराजः, शिवादेवी च तावुभौ ।
अवापतुर्महानन्दं, मर्त्यलोके स्थितावपि ।।१३३५ ।। १. बलभद्रस्य १० टि० ।। * इतो द्वौ श्लोको ६ प्रतौ न स्तः ।। * ०सूर्य० २.४, ०शौरि० ८ ।। ० ०त्यं ६९. ।।* मु० २ ।। ०श्च ५ ।। . ०त् ६.९ ।। तत्० ६-१० ।। २ ०क्षौ ८.१० ।। * ०क० २ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org