________________
१४८ . श्रीतिलकाचार्यविरचितटीकायुतम्
मापकार्षीदसावस्य, मत्वा क्रेव्यादिवाऽकृपः । रक्षादक्षं तदस्याएँ, सूनुं मुञ्चामि कञ्चन ।।१३१२ ।। प्रज्ञाप्य कृष्णवृत्तान्तं, राममुद्दामविक्रमम् । शिक्षां दत्वा सुतत्वेना-र्पयन्नन्दयशोदयोः ।।१३१३।। रामदामोदरौ तत्र, रेमाते गोमति व्रजे । पुष्पदन्ताविव व्योम्नि, तारतारकसङ्कुले ।।१३१४ ।। प्रकृत्या विक्रमी कृष्णः, पाठितः सकलाः कलाः । रामेणासौ ततो रेजे, सिंहः प्रक्षरवानिव ।।१३१५ ।। एकजीवाविव द्वौ ता-वेकचित्तावनारतम् । विचेरतुव्रजस्यान्तः, सर्वदेवावियोगिनौ ।।१३१६ ।।
रूपापास्तस्मरं कृष्णं, लावण्यामृतसागरम् । निर्निमेषदृशो गोप्यः, पश्यन्त्यश्चिन्तयन्त्यदः ।।१३१७ ।। सर्वाण्यङ्गानि चेद् धाता, कुर्यान्त्रमयानि नः । , एतद्प सुधापाने, तृप्तिरीषद् भवेद् यदि ।।१३१८ ।। हल्लीसकेन भ्राम्यन्ति, गोप्यः कृष्णस्य पार्श्वतः । तारिकाणां गण इव, परितः काञ्चनाचलम् ।।१३१९ ।। कृष्णेक्षाक्षिप्तचित्तास्ताः, पतिता अपि दोहिनीः । अविदन्त्यः सुदत्योगाः, कदापि दुदुहुः क्षितौ ।।१३२० ।। पश्यन्ति सर्ववस्तूनि, कृष्णमूर्तीनि सर्वतः । कृष्ण कृष्णेति वाचैव, तानि जल्पन्ति गोपिकाः ।।१३२१।। वस्तूनां तत्र सर्वेषां, नामरूपे विलिल्यतुः । ख्यातिर्लोकेऽत एवाभूत्, सर्वं विष्णुमयं जगत् ।।१३२२ ।। युग्मम् खण्डैरिवेन्द्रचापस्य, केकिपिच्छैविभूषितः ।
गोपालगू(गु)र्जरी कृष्णो-ऽगायद् गोपीधृतश्रुतिः ।।१३२३।। १. राक्षस: १० टि० ।। * ०ष: ४ ।। . ०शु ६-१० ।। २. शशिभास्करौ २ टि० ।। ३. कवचवान् ।। । स्तामरं २ ।। दपि ५ ।। ४. मण्डलेन तु यन्नृत्यं, स्त्रीणां हल्लीसकम् (अभिधान० २/२८१) इति २ टि० ।। पाः ८ ।। * °न्त्यो ६-९. ।। . ०री ४.५.८. ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org