________________
१४६ . श्रीतिलकाचार्यविरचितटीकायुतम्.
अन्विता बहुभिः स्त्रीभि-गोकुले गोऽर्चनाच्छलात् । गोदण्डानपि निःशेषा-नर्चन्ती देवकी ययौ ।।१२८८ ।।
अस्मगर्भमिवा स्वं, यशोदोत्सङ्गसङ्गतम् । निर्वामन्दमानन्द-मासदद् देवकी तदा ।।१२८९।। क्रियासमभिहारेण, देवकी तत्र यद्ययौ । तदादि प्रावृतल्लोके, गोव्रतं देवकीकृतम् ।।१२९०।। .. शौरेस्तत्रान्यदा वैरात्, सूर्पनख्याः सूते उभे । वसुदेवमपाका, नालं शकुनि-पूतने ।।१२९१।। यशोदानन्दवैयग्र्यात्, कृष्णमेकाकिनं तदा । विद्यया शौरिजं ज्ञात्वा, तं विहन्तुमुपेयतुः ।।१२९२।। रराट कटुवाचाटा, शकुनिः शकटस्थिता । . कृष्णस्य न्यक्षिपद् वको, विषाक्तं पूतना स्तनम् ।।१२९३।। कृष्णः सान्निध्यक/भि-देवताभिरधिष्ठितः । ' तेनैव शकटेनोभे, ते खेचौ जघान सः ।।१२९४ ।। तत्र नन्दः क्षणादागा-दपश्यत् कृष्णमेककम् । पर्यस्तं शकटं चाग्रे, खेचर्यौ च पुरो मृते ।।१२९५ ।। पप्रच्छादूरगान गोपान्, गोकुलेशो भयाकुलः । कथमेतदभूदेवं, तेऽपि तस्य न्यवेदयन् ।।१२९६ ।। एका धापयितुं लग्ना, रटन्ती कटु चापरा । कृष्णः शकटमुत्पाट्य, कोपाद् द्वे अप्यमारयत् ।।१२९७ ।। तदाकर्ण्य भयानन्दः, चिन्तयामास चेतसि । बालोऽप्ययमबालौजा-स्तन्मास्याभूच्छलादिकम् ।।१२९८ ।। यशोदापि तदाभ्यागात्, श्रुत्वा तच्चेष्टितं तथा ।
निवेश्य कृष्णमुत्सङ्गे, सर्वाण्यङ्गान्यवैक्षत ।।१२९९।। * चिं० १.२.४. ।। १. गोव्यूहान् १० टि० ।। २. मरकतमणिम् १० टि० ।। - तानं ६-९ ।। ३. अवलोक्य २ टि० ।। . ०था १-५ ।। * ०र्तुमशक्ते ६-९, ०मशक्ते शक्नुपू० १०, अयं मूलपाठः १० टिप्पण्यामपि ।। र्तृ० ६-८.१० ।। + दा० ८ ।। ४. विक्षिप्तं १० टि० ।।.गोपायोऽसौ भ० ६-१० ।। 0 ०थं रे ८ ।। * ०स्य ३.४. ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org