________________
श्रीदशवैकालिकसूत्रम् श्वेतशक्कररूपेण, तत्सान्निध्यविधायिका । देवता गोपुरद्वार-कपाटान्युदघाटयत् ।।१२७६।। पञ्जरस्थेन शुकवत्, उग्रसेनेन भूभुजा ।
आयातो गोपुरे शौरिः, किमेतदिति भाषितः ।।१२७७।। दर्शयन् बालकं तस्य, तेजोवल्ल्यालवालकम् । अयं त्वद्वैरिणं कंसं, हत्वा त्वामुद्धरिष्यति ।।१२७८।। न प्रकाश्यं परमिदं , कस्यापि बह्मतत्त्ववत् । एवमस्त्विति तेनोक्ते, शौरिर्नान्दे व्रजेऽव्रजत् ।।१२७९।। नन्दपन्या यशोदायाः, शौरिः सुनुं समर्प्य तम् । तदा तज्जां सुतां लब्ध्वा, देवकीनिकटेऽमुचत् ।।१२८०।। शौरिणैवं कृतें कंस-यामिकास्ते जजागरुः । पुत्रीमादाय देवक्याः , कंसाय क्षिप्रमार्पयन् ।।१२८१।। कंसः स्त्री वीक्ष्य तां दध्या-वितः स्यान्मम किं मृतिः? । यद्वा चण्डकरस्यापि, सन्ध्या नास्ताय किं भवेत् ? ।।१२८२।। प्रचण्डा डाकिनी भूत्वा, हन्यादेषापि जातुचित् । इत्युग्रेण नखाग्रेण, तत्रासांशमखण्डयत् ।।१२८३।।
अथ तामार्पयद् बालां, वालयित्वा पुनः स्वसुः । डाकिनीत्वेऽपि यन्नैव, च्छिन्नाङ्गी छैलयिष्यति ।।१२८४ ।। कृष्णाङ्गत्वात् कृष्ण इति, गोपैरुल्लपितः शिशुः । यदुवंशकुलोत्तंसो, गोकुलान्तरवर्द्धत ।।१२८५ ।। गते मासे वसुदेवं, देवक्येवमवोचत । सोत्कण्ठा द्रष्टुमेष्यामि, सुतं गौरिव तर्णकम् ।।१२८६।। उवाच वाचं शौरिश्च, किं त्वां वच्मि ? वचस्विनि! ।
कंसेनालक्षितालक्षं, किञ्चित् कृत्वा व्रजेजम् ।।१२८७ ।। वृषभ ५ ।। १. वृषभः ३.१० टि० ।। । ०काः २ ।। 0 ०नां ४ ।। ।। २. देवक्या: १० टि० ।। मां छलिष्यति ६-१० ।। २ ०क्ष्यं २.६.१० ।। + व्रज ८ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org