________________
श्रीदशवैकालिकसूत्रम्
ऊचे कंसोऽहमुद्वाहं, देवकीवसुदेवयोः । विधापयितुमत्राऽगाम्, निमित्तमिदमागमे ।।१२२७ । । स बभाषे विधिर्नैष, कन्यार्थं यद्वरः स्वयम् । समेति तन्न दास्यामि, वसुदेवाय देवकीम् ।।१२२८ ।। सौरिकंसौ ततो वीक्ष्या-पन्नौ शिबिरमीयतुः 1 दध्यतुश्चैवमावां न, केनाप्यत्रापमानितौ ।।१२२९ ।। विवेशान्तपुरस्यान्त-र्देवकः क्षितिभृत् पुनः । तत्र पुत्र्या नतोऽवादी-ल्लभस्वात्मसमं पतिम् ।।१२३०।। औंख्यचेति नृपो देव्यै, देवकीं वृष्णिसूनवे । याचन् कंसो निषिद्धो मा, सपत्न्यब्धौ पतत्वसौ । ।१२३१ । । तदैव व्यषदद् देवी, रोरुदीति स्म देवकी । राजोचे मा स्म खिद्यध्वं, प्रष्टुमेवागतोऽस्मि वः । । १२३२ ।। उवाच देवी देवक्याः, शौरिरेवोचितो वरः । भाग्यैरस्याः स्वयं प्राप्त-स्तन्न युक्तं न्यषेधं यत् ।।१२३३।।
खलु कृत्वा विषादेन, निषिद्धोऽयं मया वरः । दत्तायां बहुपत्नीके, खेदो वां मा भवत्विति ।।१२३४।। युवयोः सम्मतोऽयं चेद्, वरः तत्कृत एव सः । तदानीमेव तत्पार्श्वे, प्रेषयामास मन्त्रिणम् ।।१२३५।। तेन सान्त्वनवाग्मन्त्रा-क्षरैस्तैस्तैः क्षणादपि । अपमानविषावेगः, सर्वोऽप्युत्तारितस्तयोः ।। १२३६ ।। विवहिं सुमहोत्साहं, चक्रे शुद्धेऽह्निं देवकः । सानन्दं शौरिदेवक्यो - गीयमानैरुलुलुभिः ।। १२३७।। देवकोऽदात् सुवर्णाढ्यं, शौरये करमोक्षणे ।
नन्दं गोकोटियुक्तं च दशगोकुलनायकम् ।।१२३८ ।।
०गान्नि० २ ।। १. विलक्ष्यौ ।। ०श्चाऽथ नौ नैवं पूर्वं केनाप्यमानितौ ६-१० ।। ७ आचख्यौ च नृपो देव्यै, देवकीं शौरयेऽर्पयत् । कंसो न्या ( ० न्य० १०) षेधि मैवासौ सपत्न्यब्धौ ब्रुडत्विति । २.६-१० ।।
००
६-१० ।। है ० ८.९ ।। + वा १ ।।
०हः १ ।। ÷ ०भ्रे० ६.७.९, ०भे० ८.१० ।।
Jain Education International
१४१
For Personal & Private Use Only
www.jainelibrary.org