________________
१४२ श्रीतिलकाचार्यविरचितटीकायुतम्
*नन्दान्वितौ शौरिकंसौ, जग्मतुर्मथुरामथ । विवाह्यानीतमित्रार्थं, कंसश्चक्रे महोत्सवम् ।।१२३९ ।। अतिमुक्तः पुरोपात्त-व्रतः कंसनृपानुजः । पारणाय तदायासीत्, कंसौकसि तप:कृशः ।।१२४० ।। कंसकान्ता जीवयशा, मत्ता मदिरया तदा । तं वीक्ष्याचे साधु साधू-त्सवे प्राप्तोऽसि देवर ! ।।१२४१ ।। बाहू प्रसार्य विवशा, सद्यः कंठे विलग्य सा । ऊचे नृत्य मया सार्द्ध, क्व ते पुनरिहागमः ? ।।१२४२।। ऊचे ज्ञानी मुनिः सेयं, मत्तेऽसौ यत्कृते महः । तद्गर्भसप्तमो भावी, हन्ता पत्युः पितुश्च ते ।।१२४३।। श्रुत्वा तद्वज्रपाताभं, वचो जीवयशा भयात् । मुक्त्वा मुनिं मदं चाशु, कम्प्रा कम्परुजेव सा ।।१२४४ ।। आख्यद् गत्वा सा पत्युः, सोऽपि तद् दध्यिवान् हृदि । अमोघत्वान् मुनेर्वाक्यं, सगोत्रं वज्रचक्रयोः ।।१२४५।।
यावदेतन्न जानाति, वसुदेवो न देवकी । सप्ताद्यान् देवकीगर्भान्, स्वयं याचे यदूद्वहम् ।।१२४६।। इति चेतसि सञ्चिन्त्य, स्वयं कंसः सपद्यपि । ' जगाम वसुदेवस्य, सौधं बद्धशिरोऽञ्जलिः ।।१२४७ ।। वसुदेवोऽपि वात्सल्यं, विधापय्यासनादिकम् । ऊचे सुधामुचा वाचा, हरन्निवागमश्रमम् ।।१२४८।। ऊचे च मित्र ! किञ्चित्त्वं, मां याचितुमना इव । आकृत्या लक्ष्यमेतन्मा, शतिष्ठा याच दास्यते ।।१२४९ । । बध्वा मूर्यञ्जलिं स्माह, त्वयैव पदवीमिमाम् ।
स्थापितोऽस्मि जरासन्ध-सुतादापनतः सखे! ।।१२५० ।। * अयंश्लोकः ६-९ प्रतिषु नास्ति ।। . ०क्ष्योवाच सा ६.७.९.१०, ०क्ष्यवचसा ८ ।। 0 ०त्यं ५ ।। - मदं मुनिं ६.८-१० ।। है तु १.१० ।। - ०ध्य० ५, ०धि० ४.६-१० ।। . व्यधात्पर्या० ५ ० ०तो ६-९ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org