________________
१३७
श्रीदशवैकालिकसूत्रम् समागत्य ततः सद्यः, पार्श्वे तस्यैव सद्गुरोः । ज्यायानपि प्रवव्राज, भ्रातृस्नेहानुरागतः ।।११७९ ।। जातौ साधू ततस्तौ द्वौ, तपोनिष्ठौ क्रियापरौ । क्रशयन्तौ भवं स्वं च, व्यहषातामनिश्रया ।।११८० ।। तपःप्रभावतोऽमुष्माद्, भूयासं भाविजन्मनि । जगदानन्दन इति, निदानं विदधे लधुः ।।११८१।। पालितोत्तमचारित्रौ, द्वावप्यायुःसमाप्तितः । तौ विपद्य महाशुक्रे, दिवि देवौ बभूवतुः ।।११८२।। इतः पुरे सौर्यपुरे, सौर्यवत् पुरुषाकरे । समुद्रवत् समुद्राख्य-स्तत्रे राट् वाहिनीपतिः ।।११८३।। दशा) दशमस्तस्य, वसुदेवोऽस्ति बान्धवः । तद्राज्ञी रोहिणीत्यस्ति, साक्षाद् विद्येव रोहिणी ।।११८४ ।। राजललितस्य जीव-श्युतः शुक्रसुरालयात् । तस्याः कुक्षाववातारीत्, मराल इव मानसे ।।११८५।। सिंहाऽब्धीन्दुगान् स्वप्ने, चतुरो रोहिणीमुखे । निशान्ते विशतोऽद्राक्षीद्, बलजन्मनिवेदकान् ।।११८६।। समयेऽसूत सा सूनुं, गुणालीवोज्वलं यशः । सर्वेऽपि यदुराजान-स्तस्य जन्मोत्सवं व्यधुः ।।११८७ ।। तस्याकार्षीत् पिता नाम, राम इत्यभिरामधीः । वर्द्धते स्म क्रमेणासौ, नन्दने कल्पवृक्षवत् ।।११८८ ।। कलाकलापशालिभ्यः, कलयन्निखिलाः कलाः ।
रामः प्रकाममुद्दामः, सकलोऽप्यकलोऽभवत् ।।११८९।। क्ले० ४ ।। १. स्वल्पं कुर्वन्तौ ९ टि० ।। २. विहारं चक्राणौ ९ टि० ।। ३. निश्रारहितेन ९ टि० ।। . इतस्तपः प्रभावेन २, इतस्तपोऽनुभावेन ६-१० ।। - ०मुष्य १, ०ष्मिन् ४ ।। ४. अहमिति शेषः ९ टि० ।। ५. परलोकेऽन्यजन्मनि ९ टि० ।। ६. लधुर्धाता इति निदानं चक्रे ९ टि० ।। * देवलोके महाशुक्रे, तो विपद्योदपद्यताम् ६-१० ।। ७. अष्टमे ९ टि० ।। सू० २ ।। + सू० २ ।। ८. शूरपुरुषाणां निधाने ९ टि० ॥ ९. सौरीपुरे ९ टि० ।। १०. सेनापतिः, समुद्रपक्षे-नदीपतिः ९ टि० ।। . नाम शशाङ्कस्येव ६-१० ।। त्या ६-१० ।।* न्यः ६-१० ।। ११. अकलनीयः २ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org