________________
श्रीतिलकाचार्यविरचितटीकायुतम् आस्थानस्थस्य चान्येयुः, समुद्रविजयप्रभोः ।। दशार्हकंसादियुजः, समीपे नारदोऽभ्यगात् ।।११९० ।। समुद्रविजयस्तस्या-भ्युत्थाय सपरिच्छदः । आराध्यस्येव सत्कारं, विधत्ते स्म यथोचितम् ।।११९१।। सत्कारालापसंलापैं-स्तेषां हर्षात् क्षणं स्थितः । आपृच्छ्योत्पत्य याति स्म, नारदः स्वैरमन्यतः ।।११९२।। पृष्टः कंसेन कोऽसावि-त्यथाचख्यौ यदुप्रभुः ।।
आसीत् प्राक् तापसो यज्ञ-यशा बहिरितः पुरात् ।।११९३।। तद्भार्या यज्ञदत्ता च, पुत्रः सुमित्रनामकः ।। यथार्थनामिका पुत्र-पत्नी सोमयशाः पुन ।।११९४ ।। च्युत्वा जृम्भकदेवेभ्यः, सुरः कश्चिदवातरत् । उदरे सोमयशसः, स चाभूदेष नारदः ।।११९५ ।। त्यक्ताऽन्नास्तापसास्ते च, दिनमेकमथापरे । विधायोञ्छमरण्यान्यां, कुर्वते तेन पारणम् ।।११९६ ।। मुक्त्वा बाल्येऽधः कथेल्ले-र्नारदं ययुरुञ्च्छितुम् । जुभकास्तं तदादाक्षु-र्बालं बालार्कवद् धुता ।।११९७ ।। पूर्वजन्मवयस्यं तं, विज्ञायावधिना तदा । तस्याशोकतरो श्च्छाया-मस्तभ्नन् जृम्भकामराः ।।११९८ ।। स्वार्थं गत्वाथ ते सिद्ध-स्वार्षीः प्रत्यागताः पुनः । गृहीत्वा नारदं स्नेहा-निन्युर्वैताढ्यपर्वतम् ।।११९९ ।। छायास्तम्भात् सुरैस्तस्य, कङ्केल्लिद्रोस्तदाद्यपि । प्रसिद्धिरभवच्छाया-वृक्ष इत्यवनीतले ।।१२०० ।।
वैताढ्याद्रिगुहायां स, जृम्भकैः पालितः शिशुः ।
प्रज्ञप्त्याद्या महाविद्याः, शिक्ष्यते स्माष्टवार्षिक: ।।१२०१।। * तस्य चक्रे १.२.१०, तस्य चक्रुर्य० ६-९. ।। १. उड्डीय आकाशमार्गे ९ टि० ।। २. कः असौ ३ टि० ।।। ०क्षौ ८.९ ।। - य० ६-१० ।। ३. द्वितीयदिने ।। ४. व्रीहिनिचयम् ।। ५. महारण्ये १० टि० ।। - नां ५.८. ।। बालं किंकेल्यधो मुक्त्वा १, बाल्ये किं केल्यधो मुक्त्वा १ टिप्पण ३.५, बाल्ये किंकल्यधो मुक्त्वा ४ ।। ६. कथेल्ले: १० टि० ।। + oम्भ० ५-१० ।। .ाः २ ।। ७. निवृत्ताः ९ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org