________________
१३६ श्रीतिलकाचार्यविरचितटीकायुतम्
दारुभिश्चारुभिर्भूत्वा, शकटीं विकटॉमपि । आरूढो दारुभरिकां, खेटयामास केन्यसः ।।११६७ ।। गेरीयानग्रतो भूत्वा, पादचङ्क्रमणोऽव्रजन् । विलोक्य पथि वेलन्ती, चक्रमण्डलिनीं पुरः ।।११६८ ।। गुरुणा करुणाइँण, बभाषे खेटयन् लधुः । शकटीं टालये मार्गान्, मा स्मासौ म्रियतोरगी ।।११६९।। तस्यामृतमुचं वाचं, श्रुत्वा विश्वसिता स्थिता । ' कनिष्ठो निष्ठुरः स्माह, भज्यमानास्थिचीत्कृतिम् ।।११७० ।। अहमाकर्णयिष्यामि, ममात्रास्ति कुतूहलम् । मृतायां भ्रातरेतस्यां, किमु नौ भावि सूतकम् ? ।।११७१।। युग्मम् इत्युक्त्वा निर्दयः क्रूर-स्तस्या उपरि सत्वरः । शकटीं खेटयांचक्रे, सा च भग्नास्थिपञ्जरा ।।११७२।। वैरी ममैष कोऽपीति, चिन्तयन्ती व्यपद्यत । पश्चाद् भार्याभवत् ते सा, कुतश्चित् कर्मयोगतः ।।११७३।। अहो विचित्रतैकस्मा-दप्यग्नेर्लब्धजन्मकः । समभूदान्ध्यकृद् धूमः, प्रदीपश्च प्रकाशकः ।।११७४ ।। ज्येष्ठो भ्राता प्रियालापी, मृत्वास्यास्तनयोऽभवत् । । सोऽत्यन्तवल्लभो मातु-स्तेन सत्कर्मणाजनि ।।११७५ ।। कनिष्ठोऽप्यभवत् तस्याः, सूनुर्दैवानुभावतः । अनिष्टोऽभूदसौ तेन, प्राकृतेन कुकर्मणा ।।११७६ ।। कौतुकेनापि नाकार्य, कार्यकेनापि जन्तुना । गङ्गदत्तोऽभवद् दुःखी, कौतुकादप्यकार्यकृत् ।।११७७ ।।
ततः श्रेष्ठी तमाहवं, दीक्षस्वामुं सुतं मुने! ।
नीतस्तेन गुरूपान्तं, गुरुभिः सोऽथ दीक्षितः ।।११७८ ।। *टो० ३ ।। १. कनीयान् भ्राता ९ टि० ।। २. वृद्धभ्राता ९ टि० ।। ३. सर्पिणीम् ।। . ०ठा० २-५ ।। दारुणः २.६-१० ।। * ०वनार्य क्षेत्रभूरिव २.६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। है ०श्च० ४ ।। नः ८.९ ।। . तु ६.९.१०, नु ८ ।। 0 ०त: ६-१० ।।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org