SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् ___१३५ ‘सुखादिकादिकं ज्यायान्, यत्किञ्चिल्लभते ततः । विश्राणयति तस्यापि, भ्रातुर्भागं कनीयसः ।।११५५ ।। तं विज्ञाय कुतोऽप्यम्बा, दृष्ट्वा हन्ति यथा तथा । अन्येधुरुत्सवे जाते, भुञ्जाने स्वजने जने ।।११५६।। पित्रानीय निवेश्याध-स्तेल्पं यावत् स भोज्यते । सा तावत् प्रेक्ष्य धृत्वाथ, केशेष्वाकर्षति स्म तम् ।।११५७।। चपेटाद्यैस्ताडयित्वा-ऽक्षिपच्छन्दनिकान्तरे । नीत्वान्यत्र रुदन् सोऽथ, स्नानं तातेन कारितः ।।११५८ ।। तदा च तत्र भिक्षार्थ-मेकः साधुः समाययौ । श्रेष्ठी पप्रच्छ तं मातुः, पुत्रोऽनिष्टः प्रभो! भवेत् ? ।।११५९।। मुनिरूचे मातरोऽपि, स्युर्द्विषः प्राग्विराधिताः । अत एव जन्ति गर्भ, जातमात्रं त्यजन्ति च ।।११६० ।। मनोवृत्तिः स्वयं कर्म, यथोत्पाद्य शुभाशुभम् । मोदिता वर्द्धयत्याद्यं, पीडिता क्षणुते परम् ।।११६१ ।। तथा च-. यं दृष्ट्वा वर्द्धते क्रोधः, स्नेहश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्ववैरिकः ।।११६२।। यं दृष्ट्वा वर्धते स्नेहः, क्रोधश्च परिहीयते । स विज्ञेयो मनुष्येण, एष मे पूर्वबान्धवः ।।११६३।। . पृष्टोऽथ श्रेष्ठिना साधुः, किमेतन्मातुरादिमः । इष्टोऽनिष्टस्तनूजोऽन्यः, से ज्ञात्वा ज्ञानतोऽब्रवीत् ।।११६४ ।। एकस्मिन् सन्निवेशेऽत्र, द्वौ सोदयौं बभूवतुः । अकृत्रिमप्रेमरसौ, दृशाविव परस्परम् ।।११६५ ।। एकदा जग्मतुः काष्ठा-न्यानेतुं शकटेन तौ । गत्वाटव्यामटन्तौ च, च्छित्वा शुष्कांस्तरूनथ ।।११६६ ।। १. ददाति ९ टि० ।। * सङ्गते ६-१० ।। २. भूमिभागं ।। ३. गृहश्रोतसि ।। * अयंश्लोकः १.४.५. प्रतिषु नास्ति ।। ४. हिनस्ति ९ टि० ।। - अयंश्लोक ६-९. प्रतिषु नास्ति ।। * साधुर्ज्ञानादथाब्रवीत् २.६-१० ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy