________________
पपाम् ।
।
१३४ श्रीतिलकाचार्यविरचितटीकायुतम् ।
व्यूढाप्रौढा धरित्रीचरखचरसुताः, प्राक्तप:कल्पवृक्षादुञ्चित्योञ्चित्य सर्वाः, फलनिवहमिवै-कत्र कृत्वोपनीय । आरुह्योच्चैर्विमानेऽ-ष्वथ खचरनृपै-रन्वितः शौरिरागाद्, रङ्गं स्वं सोदरान् स्वान्, पुरजनसहितान्, नन्दयामास सर्वान् ।।११४५।। स्रग्धरा __ इतश्च कुरुदेशोऽस्ति, निवेशः सर्वसम्पदाम् । उपर्युपरि संन्यस्त, ग्रामारामपुराकरः ।।११४६।। हस्तिनागपुरं तत्र, पुरं यस्मिन्नजायत ।। श्रीशान्तिः पञ्चमश्चक्री, षोडशस्तीर्थनायकः ।।११४७ ।। श्रेष्ठी महाजनज्येष्ठः श्रेष्ठस्तत्र धनाभिधः । व्यवसायमयैर्मन्त्रै-येनाकृष्टा दिशां श्रियः ।।११४८ ।। धनश्रीः श्रेष्ठिनी तस्य, कान्तिकल्लोलकूलिनी । स्वर्णश्रिया विराजन्ति, सञ्चक्रानन्ददायिनी ।।११४९।। .. तयोर्बभूव तनुभूः, प्रथमः प्रथमः सताम् । जनन्याः प्राणवने राज-ललितोऽत्यन्तवल्लभः ।।११५०।।
द्वितीयश्च सुतस्तस्या, उदरे समवातरत् । निविष्ट इव पाषाणो-ऽनभीष्टो गर्भगोऽपि सः ।।११५१।। प्राज्यैः पातनभेषज्यैः, स कृतैरपि नापतत् । किं प्रभुः? कोपि कस्यापि, हर्तुं सुकृतदुःकृते ।।११५२।। जातश्च वैरिवद् दृष्ट्वा, दास्याश्छदितुमर्पितः । स दृष्ट्वानीय पित्रा तु, दास्याः कस्याश्चिदर्पितः ।।११५३।। अविज्ञातं जनन्या तं, जनकोऽवर्धयत् सुतम् ।
गङ्गदत्त इति शिशो-र्नाम तस्य स दत्तवान् ।।११५४ ।। * कृत्वैकत्राखिलास्ता उपयत युवतीर्भूचरीः खेचरीश्च, दिव्यर्थीन् मेलयित्वा गगनचरनृपान् पत्तिभूतान् प्रभूतान् । आरुह्योच्चैर्विमानेष्वथ सपरिकरः शौरिरागात् पुरं स्वं, सोदर्यानुग्रसौर्यान् पुरजनसहितान् नन्दयामास सर्वान् । २.६-१० ।। विरोवीधर० ५ ।। १. बोटयित्वा त्रोटयित्वा ।। - वि० ९ ।। र १ ।। ति० २ ।। २. श्रेयान् ९ टि० ।। + ०श्री० ६-१० ।। ३. नदी ।। ४. पुत्रः ९ टि० ।। ५. नाम्ना १० टि० ।। . ०स० २ ।। 0 ना० ५ ।। * हर्तुं शक्ये न केनाप्यङ्गिनां २.६-१० ।। . स्व० १, कृतःकृताम् ९, ।। ६. कृतदुःकर्मता ९ टि० ।। ४ तत्क्षणाद् बहिरुज्झितः ६ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org