________________
१३२ श्रीतिलकाचार्यविरचितटीकायुतम्
परे पौरुषवन्तोऽपि, पार्थिवा अबलाः कृताः । तेन धात्रा नवेनेव, प्राक् सृष्टिः परिवर्तिता ।।११२२।।
साशङ्कोऽथ जरासन्धः, समुद्रविजयं जगौ । न पाटहिकमात्रोऽय-मेवं राज्ञां विडम्बनात् ।।११२३।। ततस्तत्र स्वयं गत्त्वा, जितकाशी निगृह्यताम् । जयश्रिया समं तस्य, भवान् गृह्णातु रोहिणी ।।११२४ ।। समुद्रविजयोऽप्याह, न नः कार्यं परस्त्रिया । सार्धमेतेन योत्स्येऽह-मन्यथापि त्वदाज्ञया ।।११२५ ।। ततः समुद्रविजयः, साधु बन्धुभिरष्टभिः । रणरङ्गमनुप्राप, समग्रोदग्रसैनिकः ।।११२६ ।। दृष्ट्वा भ्रातॄन् निजान् शौरिः, सुचिरान् मुमुदेतमाम् । . वपुः पुलकितं सद्यः, सुधासीकरसिक्तवत् ।।११२७ ।। क्षणमात्रं परं किञ्चिद्, युद्धविज्ञानमात्मनः । दर्शयिष्यामि बन्धूना-मपि विस्मयकृत् ततः ।।११२८ ।। वचनं वचनेनेव, शस्त्रं शस्त्रेण खण्डयन् । सुरासुरचमत्कार-कारि युद्धं चकार सः ।।११२९ ।।
अथ यावद्यदुस्वामी, व्यग्रोऽभूत् तज्जयाशया । ' साक्षरं प्रभुपादाग्रे, तावच्छौरिः शरं न्यधात् ।।११३० ।। समुद्रविजयो बाणं, तमादायेत्यवाचयत् । . वसुदेवस्तदा देव!, कृत्वा कपटनाटकम् ।।११३१।। निर्ययौ स्वैरचर्यार्थं, देशदर्शनकौतुकी । सोऽयं वर्षशतात् प्राप्तो, नमति त्वत्पदाम्बुजम् ।।११३२ ।। युग्मम् समुद्र इव दृष्ट्वेन्दु, ससंरम्भो यदुप्रभुः ।
उच्छलन्मोदकल्लोलः, सञ्चचारानुजं प्रति ।।११३३।। * ०ला० १.१० ।। १. विजयी ।। • राजन् ३.४, राज्यं ५ ।। 0 मे न ५ ।। २. परभार्या ३ टि० ।। शतेन ५ ॥ ०य व्य० ४ ।। + आविष्कृतस्वरूपं तं १-५. ।। ३. आविष्कृत-प्रकटीकृत ३ टि० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org