________________
श्रीदशवैकालिकसूत्रम् ततः पाटहिकस्तत्र, सहस्रार्जुनवत् तदा । सहस्रभुजदण्डोऽभूद्, विद्ययाँ चण्डदर्शनः ।।११११ ।। शौरीन्, परितो वैरि-वारिकुण्डकमद्भुतम् । शरवृष्टिं तदा तत्र, किलाख्यातीव सर्वतः ।।१११२।। भुजद्वयेन पाटहं, वादयामास निर्भरम् । शरासारेण शेषैस्तु, मेघवद् वर्षति स्म सः ।।१११३।। नर्तयन् कीर्तिमात्मीयां, रोहिणीमिव तत्र च । पटहध्वनिना जय-लक्ष्मीमपि किलाह्वयत् ।।१११४ ।। अमुद्रारिसमुद्रान्त-रौर्वाग्निरिव स ज्वलन् । . विष्वग् मुञ्चन् शरज्वाला-स्तद्यशोजलशोषिणीः ।।१११५ ।।
आगच्छतोऽपि शस्त्रौघा-नमोघानपि लाघवान् । मनोरथानिवारीणां, विफलीकुरुते स्म सः ।।१११६ ।। मुक्तः पत्री कार्मुक-पञ्जरतस्तेन दन्तवक्रस्य । मुखदाडिमरदकुलिकाः, प्रथमं समरागतस्य चुणति स्म ।।१११७ ।।आर्या जगन्मल्लस्य धम्मिल्ल-मुल्लसन्माल्यमाशृगैः । बद्ध्वा सङ्कोच्य तत्कीर्ति-मिव भूमावपातयत् ।।१११८ ।। शौरिश्छत्राणि चिच्छेद, केषाञ्चिद् विद्विषां तदा । तत्तशःशरीराणां, कपालांनीव मूलतः ।।१११९ ।। शैल्यं सशल्यमकरोद्, दंष्ट्रिकालवनेन सः । वृद्धायाः कस्यचित् कीर्ते-र्यष्टिवत् केतुमच्छिदत् ।।११२०।। . सहस्रेणापि दोष्णां स, युध्यमानोऽपि संयुगे ।
जीवोच्छेदं करोति स्म, धन्वनां न तु धन्विनाम् ।।११२१ ।। .०सा चन्द्रवर्शितः ६.७.९.१०, ०सा चन्द्रवर्शिरम् ८ ।। . ०ऽरीणां ८ ।। 0 ०म० ५ ।। १. यथा चन्द्रं परितः स्थितमद्भुतं वारिकुण्डं वृष्टिं ज्ञापयति तथा वसुदेवं परितः स्थितमद्भुतं शत्रुरूपजलकुण्डं बाणवृष्टिं शापयति ।। २. प्रकाश १० टि० ।। * ०णी ३-१० ।। के यदुना पत्री २.६-१० ।। - तोऽमोचि २.६९.०तो नोदितं दन्त० १० ।। . द्विषतां तदा ६.८-१० ।। 2 द्विक्रमवृत्तीनां २.६-१० ।। * ०नां च ६.७.९.१०।। ३. बाणम् ।। ४. दाढिका ।। . ०मा० ६.८-१० ।। ५. जीवाया १० टि०, धानुष्कपक्षेजीवस्य, धन्वपक्षे-जीवायाः ।। ४ धनुषां २ ।। ६. धानुष्काणां १० टि० ।। .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org