SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १३० श्रीतिलकाचार्यविरचितटीकायुतम् ऊचे पाटहिकोऽप्येवं, किमीावो वृते मयि । कुलीनो वास्ति यः कोऽपि, गृह्णात्वेतां ममाग्रतः ।।१०९९।। जरासन्धो नृपः क्रुद्धः, श्रुत्वा तस्योद्धतं वचः । आदिशन् मुकुटबद्धान्, दन्तवक्त्रादिकान् नृपान् ।।११०० ।। हतैनं रुधिरं तावत्, राजविप्लवकारणम् । गर्वपर्वतमारूढं, पापं पाटहिकं ततः ।।११०१।। अथ पाटहिकोऽवादी, नृपान् सन्नह्य संयते । सौघेणापि ढौकन्तां, हस्त्यश्वरथपत्तिभिः ।।११०२।। पटहं वादयन् येन, तस्य पाटेन लीलया । संग्रामरङ्गभूमौ वो, नर्तयाम्यखिलानपि ।।११०३।। गत्वाथ स्वस्वमावासं, सर्वेऽपि पृथिवीभुजः । सद्यः संवर्मयामासु-स्तौ निहन्तुं कृतोद्यमाः ।।११०४ ।। जामाता रुधिरेणोक्तः, क्षणं दुर्गेऽधिरुह्यते । एतद्बलसमुद्रान्त-यदावां सक्तुमुष्टिवत् ।।११०५ ।। सोऽवक् दुर्गाधिरूढस्त्वं, रणप्रेक्षां विलोकयेः । नतिष्यन्ति समित्येते, पाटेन पटहस्य मे ।।११०६ ।। इतस्ते दन्तवक्त्राद्या, रणरङ्गमुपागताः । भट्टांश्च प्रेषयामासुः, प्रष्टुं तस्य कुलादिकम् ।।११०७ ।। उक्तो भट्टैर्महासत्त्वो, वीरस्त्वमसि कश्चन । एकोऽप्येषां ढौकसे यद्, गजानामिव केशरी ।।११०८ ।। पवित्रं किं त्वया गोत्रं ?, किं वा कुलमलङ्कृतम् ? । इति पृच्छन्ति राजान-स्ततः पाटहिकोऽवदत् ।।११०९ ।। जातिः कुलं कला वा, माता च पिता च नाम गोत्रं च । कथयिष्यन्ति ममेदं, बाणाः सर्वं रणेऽद्यं निपतन्तः ।।१११०।। आर्या * समे १.३, सम ५ ।। १. व्याकुलीभाव १० टि० ।। 0 रि० ६-१० ।। २. युद्धे १० टि० ।। * ये येन ६-१० ।। ३. पटहस्य १० टि० ।। है स्वं ६.९ ।। + स्तं ६-९ ।। . गेषु ६-१०.।। ०ताम् ८ ।। * ादसा ६-९ ।। . ०य ४.६-१० ।। ४. युद्धे १० टि० ।। ४ अयं श्लोक ६ प्रतौ नास्ति ।। 9 पि ६-१०।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy