________________
श्रीदशवैकालिकसूत्रम्
यावद् राजसुतोचे तां, भद्रे ! खिन्नास्मि सम्प्रति । न कोऽपि रोचते मात-र्मह्यमेतेषु राजसु ।।१०८७ ।। दृष्टेष्वप्येषु भूपेषु, विनेष्टं मुमुदे न सा । विना कुमुद्वतीवेन्दुं, नक्षत्रेषु बहुष्वपि ।। १०८८ ।। सचिन्तां तां विदन् शौरिः, पटहं वादयंस्तदा । पटहध्वनिना वर्णान्, व्यक्तानेतानवीवदत् । । १०८९ ।। एह्येहि मृगनेत्रे! मां, पश्ये मीमांससेऽत्र किम् ? । भर्त्ता तेऽस्म्यनुरूपोऽहं, चिन्तां मुञ्च क्षिप स्रजम् ।।१०९० ।। विरूपताभ्रच्छन्नेऽपि, तस्मिन् भानाविव स्थिते । पद्मिनीवोन्मुखी साभूत्, सद्यः स्मितमुखाम्बुजा । । १०९९ ।। श्रुतैः पटहवर्णैस्तैः कृष्टा मन्त्राक्षरैरिव ।
विज्ञापि विवशा गत्वा, कण्ठे तस्य स्रजं न्यधात् ।। १०९२ ।। ऊचुर्लोकास्तदा सर्वे ऽप्यहो ! रोहिण्यपुण्यका । नृपकल्पद्रुमान् मुक्त्वा, श्रिता शिल्पिकरीरकम् ।।१०९३ ।। ऐरावणं परित्यज्य, रासभं यानमाददे ।
. हित्वा पद्मसरो रम्यं, पङ्केऽगात् महिषीव या । । १०९४ ।। रुधिरं क्ष्माभृतोऽप्यूचुः, किमितोऽप्यधमा वयम् ? । तदेतया विमुच्यास्मान् हीनः पाटहिको वृतः ।। १०९५ ।। ईदृक्षमेव जानीमः, समग्रमपि ते कुलम् ।
आचारः कथयत्येष, ईदृशो दुहितुस्तव । । १०९६ । । किमत्रानीय तन्मूढ !, वयं निस्तेजितास्त्वया । `आत्मीयं कुलमीदृक् चैं, सर्वत्र विदितं कृतम् ।।१०९७।। रुधिरस्तानुवाचैवं, कुमारीभिः स्वयंवरे ।
यादृशस्तादृशो वापि, व्रियते मनसः प्रियः । । १०९८ ।।
१२९
अथ २.६-१०, वाचं ५ ।। ०ष्वेते० १ ।। ०ष्टुं ७.९ ।। १. कुमुदिनी १० टि० ।। २. किं विचारयसि ९८० ।। ३. द्वयर्थीचकार १० टि० ।। सुश्रुतैः पाटव० ६-८ ।। ४. कर्मकरपटहवादकरूप १० टि० ।। ०सदत् ६-१० ।। + रुहिर ३ क्षुभिता २.६-१०, अयं श्लोकः ४ प्रतौ नास्ति ।। य० ३.५-१० ।। * कुलं रुहिर ! ते खिलम् २ ।। * यत् ६-१० ।। ०हि० १-५.७ ।।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org