________________
१२८ .. श्रीतिलकाचार्यविरचितटीकायुतम्
तदेतं वृणु कल्याणि!, क्रीडितुं यदि वाञ्च्छसि । उपगङ्गं लक्ष्यमाणा, साक्षाद् गङ्गेव देवता ।।१०७५।। उवाच रोहिणी भद्रे !, श्रूयन्ते काशिवासिनः । परवञ्चनचातुर्य-चञ्चवस्तन्न मे मुदे ।।१०७६।। अथोचे साऽग्रतो गत्वा, देवि! सारस्वतेश्वरम् । महेन्द्रं वृणु काश्मीर-केदारेषु चिखेलिषुः ।।१०७७।। राजाङ्गजा जगादेवं, भद्रे! जानासि किं न मे ? । वपुस्तुषारसम्भार-भीरुकं तव्रजाग्रतः ।।१०७८ ।। तथा कृत्वाथ सा स्माह, कौशाम्बीशोऽयमीश्वरि! । निजाङ्गनिर्जितानङ्गः, किं न ते हरते मनः? ।।१०७९।। देव्यप्युवाच भद्रेऽसौ, वरमालाद्भुताभवत् । . तच्छ्रुत्वाबोधि भद्रास्य, निरासोऽन्योक्तिरेव हि ।।१०८० ।। ततो भूयः पुरोभूय, साभ्यधाद् गुणरागिणि!। ' धार्मिको विक्रमी दाता-वन्तीशः किं न रोचते ? ।।१०८१।। पुत्र्यूचेऽस्मै नमस्तात-समानवयसे सखि! । ततो भद्रा तमुल्लङ्ध्य, भूपान्तरमकीर्तयत् ।।१०८२ ।। गौडश्चूडामणिzणां, स्त्रीणां चिन्तामणिः पुनः । वृत्वामुं देवि! देवीव, चिन्तिताप्तिभाग् भव ।।१०८३।। ईदृक् काल: करालः किं ?, स्यान्मनुष्योऽपि सावदत् । ततोऽतिक्रम्य तं भद्रा, कलिङ्गेशमदर्शयत् ।।१०८४ ।। यस्यासि राहुराक्रम्य, विट्यशः शशिनोऽगिलत् । देव्येतं त्वं पतिं प्राप्य, स्याः सपत्नी जयश्रियः ।।१०८५ ।। देव्यूचे पादचारेण, खिन्ना वक्तुं न हि क्षमे ।
ततस्तमप्यतिक्रम्य, यावत् सान्यद् वदिष्यति ।।१०८६।। * ०वं ५.८. ।। . स्तेन्न १, स्तेन ९.१०. ।। १. देश १० टि० ।। २. पर्वतेषु १० टि० ।। ३. हिमसमूह० १० टि० ।। ल० ६.७.९ ।। नं ८ ।। भद्रोचे देवि दृश्यताम् २.६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org