SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकसूत्रम् भूयो भूयोऽपि व्यावृत्य, पश्यन्त्यौ रोहिणीस्त्रजौ मणिर्डमरुकस्येव, जाते राज्ञां तदा दृशौ । । १०६३ ।। किल तेषां हृदावास-चित्तस्तंभेषु सा तदा । बहुष्वेकाप्यनङ्गेन, शालभञ्जीव कीलिता । ।१०६४ ।। भद्राख्या तत् प्रतिहारी, पुरः पुत्र्या पितुर्गिरा । आरेभे गदितुं भूप-स्वरूपपरिकीर्तनम् ।। १०६५।। अर्द्धचक्री जरासन्धः, सर्वराजशिरोमणिः । वृत्वामुं भरतार्धस्य, स्वामिनि! स्वामिनी भव ।।१०६६ ।। इत्युक्ते वेत्रधारिण्या, भैद्रया नामतोऽर्थतः । उवाच रोहिणी वाच-मनुच्चैरौचितीचणा । । १०६७ ।। ईशस्य जगदीशस्य, द्वयोरपि महेलयोः । न सौख्यं किमेसङ्ख्यानां, वक्ष्यते सखि ! योषिताम् ? ।।१०६८ ।। विज्ञाय तदभिप्राय-मग्रतोभूय वेत्रिणी । पुरःस्थान् कीर्तयामास, कलकण्ठी कलस्वरा ।। १०६९ ।। दशार्हा नव देव्येते, भूस्था इव नवग्रहाः । वतंसा यदुवंशस्य, समुद्रविजयादयः ।।१०७०।। तदेतेभ्यः कमप्येकं, वरं वृणु पतिं वरे ! । रतेरिव मनोजन्मा-नुरूप भाति यस्तव । । १०७१ ।। रोहिणी वदति स्मैवं, दशार्हो दशमो लधुः । ।।१०७२।। एतेषामपमानेन, विपन्नः श्रूयते कृष्णपक्षेन्दुलेखेव, यं यं मुहूर्त्तवन्नृपम् । मुञ्चति स्म स स श्याम-तया शेश्रीयतेतमाम् ।।१०७३।। वेत्रिण्युवाच हे पुत्र !, काशीपतिरसौ बलः । यद्यशस्तटिनी गङ्गा-व्याजात् त्रिपथवाहिनी । । १०७४ ।। ०जम् ४.६.९.१० ।। ५ ०२० २.५ ९ ।। अन्तःपुरः २, अन्तःपुर० ६.७.९.१० ।। ०वे ५ ।। है धारिण्या मम सर्वथा २.६.७.१०, अयं मूलपाठः १० टिप्पण्यामपि ।। ०दृशो ६, ०दृश्य ७.१०, अयं मूलपाठः १० टिप्पण्यामपि ।। १. स्त्रियः, महापृथ्व्याश्च ।। २. बहुसङ्ख्यानाम् १० टि० ।। ०न्न १.४.७.८. ।। * ऽनले ६.७.९.१० ।। Jain Education International १२७ For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy