SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १२६ श्रीतिलकाचार्यविरचितटीकायुतम् अपहृत्येव वाग्देव्याः, सर्वा अप्यग्रहीत् कलाः । सातः पुनः कलाहेतोः, किलास्ते पुस्तिकाकरा ।।१०५१।। रोहिणीरमणो व्योम्नि, सुधांशुरवलोक्यते । अस्याः पुनर्न रोहिण्याः, कुत्रापि रमणः सदृक् ।।१०५२।। ततः स्वयंवरः पित्रा, विहितो दुहितुः कृते । तत्सौभाग्यगुणाकृष्टाः, सर्वेऽप्येयुर्महीभृतः ।।१०५३।। . पैरिस्पन्दस्तदीयोऽसौ, सर्वोऽपि परितः पुरम् । स्रीपुंसेभाश्वरत्नौघः, प्राकार इव जङ्गमः ।।१०५४।। इदानीमत्र मञ्चेषु, सर्वेषु पृथिवीभुजः । सन्त्यासीना विमानेषु, वैमानिकसुरा इव ।।१०५५।। श्रुत्वेति चिन्तयामास, वसुदेवोऽपि चेतसि । प्रस्तावे वयमायाता, रोहिण्यप्युपयंस्यते ।।१०५६।। सम्यग् विवेच्यमानेषु, तूर्यत्रितयवेदिषु । , पुरः सङ्गीतमाधातुं, जरासन्धार्द्धचक्रिणः ।।१०५७।। केलिकौतूहली शौरिः, सोत्कर्ष वादितानकः । मण्डपान्तः सहाात् तै-र्भूत्वा पाटहिकस्ततः ।।१०५८ ।। युग्मम् प्रारब्धे प्रेक्षणे तत्र, जगदानन्दितेक्षणे । सगर्वैस्तत्र गान्धर्व-दिव्यगान्धर्विकैरिव ।।१०५९।। रतिवत् कामसैन्येन, सखीवृन्देन सङ्गता । आगमद् रोहिणी तत्र, द्रोहिणी यमिनामपि ।।१०६०।। अमन्दामोदपीयूष-पाथोधेर्लहरीमिव । जगदृष्टिर्मरालीनां, मृणाली कन्दलीमिव ।।१०६१।। ज्यामिवानङ्गचापस्य, समालीढशिलीमुखाम् । तस्थिती सखी चैका, दधानां वरमालिकाम् ।।१०६२।। १. सरस्वती ।। * सा तत् ६.७.९ ।। . जन्य० ६.७.९.१० ।। २. परिजन १० टि० ।। 0 ०ध १.३-७.९.१० |* जा १ ।। हे अयंश्लोकः २.६.७.९ प्रतिषु नास्ति ।। ३. मृदङ्गः १० टि० ।।+ ०मात्यै० ६.७.९ ।।. न्दने ६.७.९ ।। ४. संयमिनाम् १० टि० ।। ५. ०बाणाम् १० टि० ।। ४ ।। * ०तां २ ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy