________________
____ १२५
श्रीदशवैकालिकसूत्रम् • शौरेः कनकवत्याश्च, करग्रहमहामहः ।
कालत्रयेऽपि यस्येह, नौपम्यमपि लभ्यते ।।१०४०।। किमय यूयमत्रेति, शौरिः श्रीदं व्यजिज्ञपत् । प्राक्तनं षड्भवस्नेहं, शौरेः श्रीदोऽप्यजिज्ञपत् ।।१०४१।। अथापृछ्य हरिश्चन्द्रं, शौरि चोत्तरदिक्पतिः । कनकवती चालाप्य, गच्छति स्मालकापुरीम् ।।१०४२।। हरिश्चन्द्रेण राजानः, स्वयंवरसमागताः । सर्वेऽपि सत्कृताः सम्मा-निताः स्वं स्वं पुरं ययु ।।१०४३।।
सार्द्ध कनकवत्याऽहा-न्युषित्वा कतिचित् ततः । शौरिः स्वैरी परिभ्राम्य-नरिष्टपुरमाययौ ।।१०४४ ।। मदान्धैः सिन्धुरैस्तत्र, सर्वगैर्विन्ध्यभूरिव । अश्वानामाकर इव, यस्याश्वैः सर्वतोमुखैः ।।१०४५।। आवासितैर्नरेन्द्राणां, पुनः सैन्यैर्निरन्तरैः । तिलोऽपि पतितो नैव, क्षरत्यन्यत् किमुच्यते ? ।।१०४६।। अजितस्वामितीर्थशा-ऽनेहसीव समन्ततः । जाताः पाणिन्धमाः सर्वे, पन्थानो मानुषैरिह ।।१०४७।। बृंहितैरिणेन्द्राणां, केकाणानां च हेषितैः । उक्तिप्रत्युक्तिभिर्गुणां, शब्दाद्वैतमिव स्थितम् ।।१०४८।। शौरिः कमप्यथापृच्छत्, किमस्त्यस्मिन् पुरेऽभवत् । सोऽवदन्नगरेऽमुष्मिन्, भद्रास्ति रुधिरो नृपः ।।१०४९।। तस्यास्ति रोहिणी कन्या, शचिंमन्या स्वरूपतः ।
सहोदरेव पार्वत्याः, सौभाग्येनातिशायिनों ।।१०५०।। १. महोत्सवः ।। * ०मुप० ५-७.९.१० ।। २. आजग्म ३ टि०।। . ०मेष १, ०मयुः ५, ०मेतत् ६.७.९.१०, मयं ८ ।। • वसुदेवः पुनर्दित्राः, परिणीय नृपात्मजाः । स्वैरचारी परिभ्राम्यन्नरिष्टपुरमाययौ ।। श्लोकत्रयस्थाने ६.७.९.१० प्रतिष्वयं श्लोकोऽस्ति, श्लोकत्रयरूपः मूलपाठः १० टिप्पण्यामपि ।। ३. समये २ टि०, काले १० टि० ॥ ४. सङ्कीर्णाः २ टि० ।। ५. जायमानम् १.३.१० टि० ।। * हि० १-५.८., दत्ता रुधिरराट्कन्या, रोहिणी ते स्वयंवरे [८.४.७] त्रिषष्टिय्यां रुधिर इत्युक्तत्वादयं पाठो युक्तः ।। २०नी ६.७.९. ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org