________________
श्रीदशवैकालिकसूत्रम्
एवं स धनदः शंसन्, नाम्ना सुरपतिप्रियम् । देवदूष्यांशुकद्वैतं, दिव्यामोदप्रमोदकम् ।।९९४।। शूरप्रभं शिरोरत्नं, देकगर्भे च कुण्डले । हारं शशिमयूखाख्य-मङ्गदे ललितप्रभे ।। ९९५ ।। नक्षत्रमालिकां चार्ध-शारदामभिधानतः । सुदर्शनौ च कटको, नानारत्नप्रभामयौ ।।९९६।। विचित्ररत्नं च कटी-सूत्रकं स्मरदारुणम् । दैवतानि च माल्यानि, दैवतं च विलेपनम् ।।९९७।।
दिव्यमेतमलङ्कारं, शौरयेऽदत्त तोषभाक् ।
तस्मिन्नलङ्कृते सोऽपि, धनदोऽन्य इवाभवत् ।। ९९८ ।। पञ्चभिः कुलकम् सत्कृतं धनदेनैवं विलोक्य यदुनन्दनम् ।
श्यालाद्या अनुगास्तस्य, परमीं मुदमसदन् ।।९९९।।
हरिश्चन्द्रनरेन्द्रोऽपि तदा तत्रैत्य कौतुकात् । शिरस्यञ्जलिमाबध्य, नत्वा श्रीदं व्यजिज्ञपत् । । १००० ।। अन्वगृह्यत युष्माभिः, कन्या कनकवत्यसौ । वुवूर्षव इवायाता, यत्स्वयंवरमीक्षितुम् ।। १००१ ।। इत्युक्त्वाकारयद् राजा, स्वयं वरणमण्डपम् । सुधर्मायाः प्रतिच्छन्दं, कृतानन्दं जगद्दृशाम् ।। १००२।। मञ्चस्थानेषु तस्मिंश्च विमानान्युत्सवोपरि ।
स्वर्गतो मार्गयित्वेवा-त्रानीयास्थापयत् किल । । १००३ ।। छायां रत्नविमानस्य, सूर्यतेजोऽभिभाविनीम् । अलक्ष्यामपि शैत्यस्या-ऽनुभावादनुमापयन् ।। १००४।। स्वर्णदण्डैः पुण्डरीकैः, पुण्डरीकसमप्रभैः ।
,
Jain Education International
१२१
दर्शयन् शारदाभ्राणां, खण्डानिव सविद्युतः । । १००५ ।।
१. नाम १० टि०, जलगर्भे इति त्रिषष्टि० टि० ।। २. सप्तविंशतिमौक्तिकैर्निर्मिते हारभेदे १० टि० ।। ३. नाम १० टि०
।।
० ट ६.७.९.१० ।। ५०व० ६.७.९.१० ।। ७ शा० २.५.८ ।। ० २-५.८ ।। है ०व समानीय
न्यधापयत् १.३-५.८ ।। + ०ताप० ६.७.९. ।।
॰तम् ४ ।।
For Personal & Private Use Only
www.jainelibrary.org