________________
१२०
श्रीतिलकाचार्यविरचितटीकायुतम् गोपायसि किमेवं स्वं ?, किमज्ञानास्म्यहं शिशुः ? । हंसो योदृशमाचख्यौ, यादृक् चित्रपटेऽस्ति च ।।९८२।। तादृशस्त्वं च मे साक्षात्, तत्त्वमेवासि मे पतिः । सोऽवदन्न पतिस्तेऽहं, त्वत्पतेः किं तु किङ्करः ।।९८३।। उत्तराशापतिः श्रीदः, सौधर्मेन्द्रस्य लोकपः । स ते भावी पतिर्भद्रे!, स्वःस्त्रीनेत्राम्बुजार्यमा ।।९८४।। । तद्दौत्येनागतोऽस्येष, तदर्थं त्वां ततोऽर्थये । भवेदुपरि पट्टस्ते, विवाह्यामुं सुरीष्वपि ।।९८५।। साऽवक् मे पूज्य एवायं, श्रीदः षड्भववल्लभः । परमिन्द्र इव क्वायं?, क्वहं? सम्प्रति मानुषी ।।९८६।। एषापि तस्य क्रीडैव, यद्दौत्यं मय्यचीकरत् । यावज्जीवं न जाँम्पत्यं, मानुषीणां सुरैः समम् ।।९८७ ।।
औदारिकस्य देहस्य, दुर्गन्धस्य सुधाशनाः । ' न स्वल्पमप्यलं गन्धं, सोढुमित्यर्हतां वचः ।।९८८।। अभ्रच्छन्न इवादित्यो, दौत्यच्छन्नोऽसि मे पतिः । त्वमेव गत्वा तद् ब्रूहि मगिरोत्तरदिक्पतिम् ।।९८९।। योग्या ते दर्शनस्यापि, नाहं मानुषकीटिका । युक्तं युष्माभिरत्रैत्य, प्राक् स्नेहो यदऽदर्शि मे ।।९९०।।
ततोऽदृष्टमिवादृष्ट, एव यादवपुङ्गवः । यथायातस्तथैवागात्, पश्यन् पतितवस्तुवत् ।।९९१।। स गत्वा धनदोपान्तं, यावदाख्याति तगिरम् । अवदद्धनदस्तावत्, खेलूक्त्वा ज्ञातमेव तत् ।।९९२ ।। पुरतः स्वप्रधानानां, धनदः शंसति स्म तम् ।
अहो चरित्रमेतस्य, सुपवित्रं विकल्मषम् ।।९९३।। १. भवन्तमिति योज्यम् ३ टि० ।। * दा० १ टिप्पण.४.६.७.९.१०. ।। २. पुण्य ३ टि० ।। . वस्त्विव २ , ०वत् स्थितः ६.७.९.१०, अयं मूलपाठः १० टिप्पण्यामपि ।। 0 ०ते २.५. ।। ३. यत् त्वमुक्ता, तत् ज्ञातम् १० टि०।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org