________________
श्रीदशवकालिकसूत्रम्
११९ अपृच्छन्नेवमेतास्तां, वेत्रधार्योऽतिसम्भ्रमात् । कुत्रास्ति कनकवती?, स्वामिनी विदधाति किम् ? ।।९७० ।। सावोचत् प्रेमदवने, सौधाग्रे देवतेव सा । स्वपुण्योपासिता स्वामि-न्यद्वितीयैव विद्यते ।।९७१।। यादवोऽपि तदाकर्ण्य, ज्ञात्वा तत्र स्थितां च ताम् । तदाख्यानेन तेनैव, वर्त्मना निर्ययौ ततः ।।९७२।। सद्यस्तमेव प्रासादं, नटवद् बहुभूमिकम् । उत्तुङ्गतममद्राक्षी-दारुक्षदथ तं शनैः ।।९७३।। दिव्यालङ्कारशृङ्गार-सारां शच्या इवानुजाम् । तूंणामिवाथ पुष्पेषोः, पुष्पाभरणभारिणीम् ।।९७४।। नैरासुरसुरस्त्रैणं, निर्जयन्तीमिव श्रिया । प्रभावातिशयादेका-मप्यनेकानुगामिव ।।९७५।।
ध्यायन्तीं पटरूपं च, परम्ब्रह्मेव योगिवत् । ... अदर्शत् कनकवती, समुद्रविजयानुजः ।।९७६।। __ पटस्थरूपानुध्याना-दिवाकृष्टमुपागतम् । ददर्श सहसा वृष्णिसूनुं कनकवत्यपि ।।९७७ ।। तं दृष्ट्वा पटमैक्षिष्ट, पटं दृष्ट्वा च तं पुनः ।
आन्दोलकं विनाप्येवं, दोलाकेलिमिवाकरोत् ।।९७८ ।। कुर्वन्ती न्युञ्च्छनामिव, तस्य नेत्राञ्चलैश्चलैः । अभ्युत्थायासनादूचे, बद्ध्वा मौलौ कराञ्जलिम् ।।९७९।। धन्यास्मि कृतकृत्यास्मि, सुभगाद्य तवागमे । इत्युक्त्वा स्मेरवक्त्राब्जा, शौरिं यावत् प्रणंस्यति ।।९८०।। अवोचत स तां तावत्, प्रणंसीर्मा स्म मां शुभे! ।
स्वामिनी त्वमहं भृत्य-स्तन्नन्तुं न तवोचितः ।।९८१।। १. क्रीडावनम् २ टि० ।। * तूणीरमिव ८ ।। , सुरासुरनर० ६.९.१० ।। 0 ०ौ० ६ ।। * अन्दो० १.३.५.७.८., अदो० ४ ।। है भद्रे १० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org