________________
श्रीतिलकाचार्यविरचितटीकायुतम् कुर्वन्तीस्तत्र शृङ्गार-मन्तरेणापि दर्पणम् । वसुदेवो निरैक्षिष्ट, स्वयं ताभिरनीक्षितः ।।९५८।। युग्मम् वज्रास्मगर्भवैडूर्य-शकलैर्बद्धभूमिकम् । कक्षान्तरं पञ्चमं च, यातवान् यदुनन्दनः ।।९५९।। सङ्कलोत्तरिकाहारान्, नागदन्तावलम्बितान् । ददर्शाधः स सङ्क्रान्तान्, भूमौ निपतिताऽनिव ।।९६० ।। स्थिता अप्येकतश्चेटी-भृताभरणपेटिकाः । सर्वरत्नमये तत्र, सोऽपश्यत् परितोपि ताः ।।९६१।। पद्मरागमयतलं, सङ्क्रान्तोल्लोचपद्मकम् । षष्ठं कक्षान्तरं सोऽगात्, पद्महदमिवागतम् ।।९६२ ।। अदेवदूष्याण्यपि हि, देवदूष्यानिवैक्षत । भाजनान्यङ्गरागस्या-नङ्गरागकराणि तु ।।९६३।। पट्टांशुकैः पञ्चवण्य-रावृतास्तत्र योषितः । . वर्षा इवाभ्रमालाङ्काः, प्रेक्षामास यदूद्वहः ।।९६४ ।। कक्षान्तरं सप्तमं तु, सौरिः साक्षेपमैक्षत । दिव्यरत्नमयस्तम्भं, सुवर्णमयभित्तिकम् ।।९६५ ।। सुधारसभरेणेव, पूरिता हारिवारिणा । पिधानकरकान्वीताः, सोऽद्राक्षीत् कलशावलीः ।।९६६।। वामनेत्रीः कलापात्रं, सर्वभाषाविचक्षणाः । दिव्यालङ्कारसाराङ्गीः, सोऽपश्यद् वेत्रधारिणीः ।।९६७ ।। अलोक इव लोकस्य, दुःप्रवेशमिदं ध्रुवम् । वेत्रभृद्व्याप्तमेवं य-दिति शौरिरचिन्तयत् ।।९६८ ।। एवं विमृशतस्तस्य, स्वर्णकेतकपत्रभृत् ।
पक्षद्वाराध्वनाऽयासीद्, दासी काप्यमरीसमा ।।९६९।। १. विनापि ।। २. योजित १० टि० ।। ३. गृहानिर्गतदारुमयावलम्बितान्( खींटी) १० टि० ।। * पतदुत० ७९. ।। . न्य० १-५.७ ।। 0 सन्ध्याकाला० १.३-५ ।। ०क० १, ०वत् ३-५ ।। ४. नालिकेरास्थि १० टि० ।। है ना ९ ।।+ ०णाम् ६-९. ।। . ङ्गीं ६-९. ।। ०णीम् ६-९. ।। ५. खिडकी १० टि० ।। *
०पथा० १.६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org