________________
११७
श्रीदशवैकालिकसूत्रम् 'क्वापि प्रोद्दण्डकोदण्ड-दण्डमण्डितपाणिभिः । पृष्ठप्रतिष्ठतूणीरे-वीरप्रेष्ठेरधिष्ठितम् ।।९४६।।। स्वर्भाणुभिरिवात्तेन्दु-बिम्बैः फेरकधारिभिः । उद्दण्डमण्डलाग्रेश्च, भटैः क्वापि भयङ्करम् ।।९४७ ।। सिंहद्वारं क्षणं वीक्ष्य, कौतुकोदश्चितेक्षणः । विद्यासिद्ध इवादृश्यः, प्राविशन्नृपमन्दिरे ।।९४८।। षड्भिः कुलकम् सौविदल्लैर्वेत्रहस्तैः, कटीबद्धोत्तरीयकैः । रुद्धं राजौकसः कक्षा-न्तरमाद्यं समन्ततः ।।९४९।। निषिद्धाज्ञातसञ्चारं, वासागारं सुखश्रियः । स्ववेश्मनीव निःशङ्कः, सञ्चचार यदूद्वहः ।।९५० ।। उच्छलत्कान्तिकल्लोलं, स्फुटस्फाटिककुट्टिमम् । तदैक्षत क्षणं शौरिः, कृतमानसविभ्रमः ।।९५१।। लोलाक्षिललितोल्लास-तिरस्कृताप्सरोगणम् । समरूपवय:श्रीकं, स्त्रैणं तत्र व्यलोकत ।।९५२।। सरत्नशालभजीकं, काञ्चनस्तम्भसुन्दरम् । द्वितीयमप्यद्वितीयं, स कक्षान्तरमाविशत् ।।९५३।। नानारत्नमयोर्वीकं, रोहणाधित्यकोपमम् ।। कक्षान्तरं तृतीयं च, स विवेश सकौतुकः ।।९५४ ।। गीतानि गायतस्तत्र, सारिकाशुकगाथकान् । मयूरान् नर्त्तयन्तीश्च, चेटीरैक्षिष्ट यादवः ।।९५५ ।। चन्द्रकान्तोत्तानपढें, क्षीरोदजलसोदरम् । तुर्यं कक्षान्तरं प्राप, यदुवीरः समीरवत् ।।९५६।। । तुदन्तः स्वं प्रपश्यन्तीः, सर्वाः सर्वाङ्गमङ्गनाः । ..
सीमन्तरचनाभाल-तिलकाऽक्ष्यञ्जनादिकम् ।।९५७।। १. धनुः ।। २. शराश्रयैः ।। * ०त्तू० २.५ ।। ३. श्रेष्ठैः १० टि० ।। ४. राहुः २ टि०, राहुभिः १० टि० ।। ५. डाल १० टि० ।। ६. प्रचण्डमण्डलायैः १० टि० ।। ७. अन्तःपुररक्षकैः १० टि० ।। ८. अन्तःपुरगृहम् १० टि० ।। ..गृहमध्यम् ।। प० १ ।। १०. गायकान १० टि० ।। - सं० ८-१० ।। ती १.३.१० ।। ११. 'सेंथो' इति भाषा० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org