SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १२२ श्रीतिलकाचार्यविरचितटीकायुतम् उत्तम्भितभुजैर्भट्टैः, पठ्यमानगुणोत्करः । उत्तानीकृतहस्ताग्रै-र्गर्जद्भिरिव कुञ्जरैः ।।१००६ ।। शुभ्राभ्यां चामराभ्यां च, वीज्यमानो मुहुर्मुहुः । साम्राज्यकमलालीला-कमलाभ्यामिवाभितः । । १००७।। एवं वैश्रमणस्तत्र, स्वयंवरदिदृक्षया । विश्वेषां विस्मयं कुर्वन्निन्द्रः स्वर्गादिवोत्तरन् । । १००८ । । पञ्चभिः कुलकम् यत्तोरणस्तम्भगते, रत्नपाञ्चालिके उभे । राज्ञां वर्धापनायेवो-र्वशीशच्याविव स्थिते । । १००९ ।। स्वर्णैस्तम्भेष्वनुस्यूता, यत्र चन्द्रास्मपुत्रिकाः । चतुष्कानिव मुक्तानां, पूरयन्ति स्वकान्तिभिः ।।१०१० ।। शौलभञ्ज्यो रत्नमय्यः, प्रसरद्भिः प्रभाभरैः । ददते मण्डपस्यान्तः, कुङ्कमच्छटकानिव । । १०११ । । शङ्खेन्दुशुचिर्रुल्लोच-श्चञ्चत्काञ्चनपद्मकैः । व्योमगङ्गौघवद् भाति, मुक्ताजालतरङ्गितः । ।१०१२ । । तत्रैकाद्भुते मञ्चे, स्वयमुत्तरदिक्पतिः । मृगेन्द्रासनमध्यास्त, सान्तरङ्गपरिच्छदः ।।१०१३।। तत्प्रत्यासन्नमञ्चे च, निषसाद कृतादरः । दिव्याङ्गरागालङ्कारो, वसुदेवः सुदेववत् । ।१०१४ ।। अन्येऽप्यन्येषु मचेषु पचेषुशरताडिताः । शल्यिता इव कनकवतीमत्रेष्टदेवताम् ।।१०१५।। औराधयितुमायाता, विद्याधरनरेश्वराः । स्वयंवरोत्सवं श्रुत्वा-मुष्या यात्राकृते किल ।।१०१६।। श्लाध्यमानो महानादैर्बन्दिवृन्दैर्महामनाः । प्रावृषेण्यपयोदानामूर्जितैर्गर्जितैरिव । १००५ चञ्चचामरयुग्मेनोत्सर्पता शोभितोऽभितः । सुधाकरकरव्यूहै-रिव निर्मितमीयुषा ।१००६ एतौ द्वौ श्लोकौ १.३-५.८ प्रतिषु इत्थं स्तः ।। निषसाद कृतादरः दिव्याङ्गरागालं ७.९, ०र्ण्य० ३ ।। ० ०षु १ ।। १. चतुः स्तम्भयुक्तमण्डपान् १० टि० ।। निषसाद कृतादिव्याङ्गरागालं १०, अयं मूलपाठः १० टिप्पण्यामपि ।। २. 'चन्दरवो' इति भाषा० ।। मयूकः ५ ।। ३. सात्मीय १० टि० ।। + नरेद्राः खेचरेन्द्राश्च, न्यविशन्त समन्ततः १.३ - ५.८.१० टिप्पण. ।। मन्त्रे० ६.७.९.१० ।। Û एष श्लोकः १.३ ५.८. प्रतिषु नास्ति ।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004254
Book TitleDashvaikalik Sutra
Original Sutra AuthorN/A
AuthorSomchandrasuri
PublisherRander Road Jain Sangh
Publication Year
Total Pages574
LanguageHindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy