________________
श्रीदशवैकालिकसूत्रम् _ ११५ हिरण्मयैर्ध्वजादण्डैः, कान्तिदण्डैश्च रत्नजैः । स्वयंवरेक्षाहर्षेण, रोमाञ्चमिव बिभ्रतम् ।।९२२।। विमानराजस्यैन्द्रस्य, युवराजमिवाद्भुतम् । किङ्किणीक्वणितैः श्रूय-माणोलूलुध्वनिं पुरः ।।९२३।। मङ्गल्यतूर्यनिर्धोषं, बन्दिकोलाहलाकुलम् । अन्तरिक्षादापतन्त-मुत्कन्धेरितमानवम् ।।९२४ ।। विमानमेकमालोक्य, शौरिस्तस्याग्रेगं सुरम् । पृच्छति स्म विमानोऽयं, कस्येन्द्रस्येव नाकिनः ।।९२५।। अष्टभिः कुलकम् सोऽवदद् धनदस्येद-मत्रारूढः स चागमत् । इहोत्तरिष्यतीदानी, स्वयंवरदिदृक्षया ।।९२६।। वसुदेवस्तदा दध्यौ, धन्या कनकवत्यसौ । यस्याः स्वयंवरे देवा, अप्यायान्ति स्म विस्मिताः ।।९२७।।
उत्तीर्य धनदस्तस्मा-दर्हतां प्रतिमाः स्वयम् । भक्त्यार्चयित्वा वन्दित्वा, सङ्गीतकमथाकरोत् ।।९२८ ।।
अचिन्तयदिदं शौरि-र्धन्योऽहं यदिहागमम् । . . . दिष्ट्या दृष्टो महात्मा यद्, धनदः परमार्हतः ।।९२९ । ।
श्रीदः समाप्य तत्रार्ह-द! शौरिं व्यलोकयत् । दध्यौ लोकोत्तराकारः कोऽप्ययं सुमहान् पुमान् ।।९३०।। श्रीदो निरुपमश्रीकं, मूर्त्याऽप्यालोक्य वृष्णिजम् । . विमानगं ससंरम्भ-मङ्गुलीसञ्जयाह्वत ।।९३१।। मोऽहं लोकपालोऽसौ, शक्रस्य परमार्हतः । इत्यगाद् वृष्णिसूस्तस्या-ऽभ्यर्णे निर्भीः कुतूहली ।।९३२।। श्रीदोऽपि स्वार्थहेतोस्तं, शौरिं सस्नेहमालपत् ।
वस्त्रालङ्कारसत्कारं, वयस्यस्येव चाकृत ।।९३३।। २०स्ये० ५-१० ।। १. उच्चैर्माङ्गल्यध्वनिम् १० टि०, धवलध्वनिम् २ टि० ।। २. उत्कन्धरिता मनुष्या येन १० टि० ॥३. अग्रगामिनम् ।। ॐ नत्वा च ६-१० ।। ४. भाग्ययोगेन ।। 0 ०यं ६-१० ।। * त्या० २.५ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org