________________
११४
श्रीतिलकाचार्यविरचितटीकायुतम्
।
मालां मारविकीं मूर्ध्नि, नेत्रपट्टाकृतिं दधत् । शिशिरः कुन्दकलिका-दशनस्तं एवं सर्वर्तुभिस्तत्र, प्रीयमाणो यदूद्वहः । गीर्वाणानामिवोद्याने, खेलति स्म सविस्मयः । ।९१२ ।। आतिथ्यं चाकरोत् तस्य, राजा वैवाहिकोचितम् । स्वविभूत्यनुसारेण, ससम्मानं सगौरवम् ।।९१३ ।।
तत्र निर्मापितेष्वंग्रे, जेन्यावासेषु वृष्णिसूः ।
&
शृणोति स्म तदालोक-मुखादैतिह्यमीदृशम् ।।९१४।। इह श्रीमान्नमिस्वामी, स्वयं प्राक् समवासरत् । शुश्रुवुर्देशनामत्र, नैरासुरसुरेश्वराः । । ९१५ ।। हल्लीसकेन स्वाम्यग्रे-ऽनुचरीभिः समं स्वयम् । लक्ष्मीरनृत्यदित्येत-लक्ष्मीरमणमीरितम् ।।९१६ ।। अर्हचैत्येषु सर्वेष्व-प्रतिमाः प्रतिमास्ततः । सुमनोवासनः शौरिः, सुमनोभिरपूजयत् ।।९१७।। भूजैरिव ध्वजैर्वायु- चञ्चलैर्गगने तदा । इतस्ततः स्तेत्युडूना-माख्यान्तमिव सञ्ज्ञया ।।९१८।। प्रेर्यमाणैः समीरण, भुजैरिव ध्वजवजैः । नभःश्रोतस्विनीनाथं, तरन्तमिव रंहसा ।।९१९।। यं सहस्रार्जुनमिव, जलकेलिपरायणम् । पताकाः दोः सहस्रेण, व्योमगङ्गाजले किल । । ९२० ।। उपरिष्टाद्विराजन्तं, राजतैः कलशोत्करैः ।
उच्छलत्कान्तिनीरान्तर्भवस्वर्णाब्जकोशवत् । । ९२१ । ।
मरविकां ४ ।। कन्द० ४ ।। ० ०तो ४ ।। १. प्रथम १० टि० ।। २. 'जानैया ओना रहेठाण' इति भाषा० ।। ३. पुरातनीवार्ता २ टि० ।। ०मिः २ ।। सुरासुरनरे० ६-१० ।। पुरः प्रभोर्निरस्या त्वा (०न्यान् २ ) रभसात् रसकैः स्वयम् । लक्ष्मीररंस्त तेनैत, २.६-१०, अयं मूलपाठः १० टिप्पण्यामपि ।। ० षु सर्वज्ञ० ६-१० ।। ४. पुष्पसुगन्धितः ।। ०नैः २ ।। ५ तस्मिन् समये आकाशे पवनचञ्चलैः ध्वजैः हस्तैरिव इतस्ततो भवत अपसरत, इति नक्षत्राणामिङ्गिताकारेण कथयन्तमिव ।। ६. भवत १.३.१० टि० ।। ७. कार्तवीर्यार्जुनम् १० टि० ।। * ०ते २ ।। ८. सुवर्ण २ टि०, सौवर्णैः ३ टि०, स्वर्णमयैः १० टि० ।। ०वत्स्वर्णा० ५, ०वव्योमा०
२.६-१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org